This page has been fully proofread once and needs a second look.

वणान्निःप्रयोजनेत्यर्थः । 'गङ्गायां घोषः' इत्यत्र प्रयोजनप्रतिपादक-
स्याऽभावात् । यथा --
 
कुरङ्गनयने । नूनमनेन तनुरोचिषा ।
स्वया सौदामिनी नीता चरणाघातपात्रताम् ॥

अत्र चरणाघातेत्यादिना निर्जितत्वं लक्ष्यते । यदि पुनर्जीयत इति
क्रियते तदा निःप्रयोजनलक्षणादोषपरिहारः ।
 
यतो व्यवहिता बुद्धिरर्थस्य क्लिष्ठमाह तत ॥
 
व्यवहितेति । अनेकपदार्थान्तरितपदार्थसामान्यस्य विशेषस्वरूपा-
नुपस्थित्या विलम्बितेत्यर्थः । तेन 'पिधत्ते हेरम्बं हिमकरकलामौलिम-
हिषी' इत्यत्र भगवत्या विशेषस्वरूपेणोपस्थितौ न दोषः । यथा--

समुद्रमथनोत्पन्नसरित्स्रोतसि मज्जता ।
सखे ! तत्संमुखेनैव ज्ञातं किमपि चक्षुषा ॥

अत्र समुद्रमथनेनोत्पन्नममृतं तस्य नदीप्रवाह इत्यर्थः । समुद्रमथने-
नाऽमृतादन्यस्याऽपि सम्भवादित्यत्र बोधविलम्बेन दोषः ।
 
अयथावद्विनिर्देशो विधेयांशस्य यत्र तत् ॥ १६॥
अविमृष्टविधेयांशमलङ्कारविदो विदुः ॥
 
अयथावद्विनिर्देशस्तु प्रकृते समासेषूद्देश्यविधेयभावतात्पर्यग्राहक-
प्रकृतिपौर्वापर्यविपर्यासः । तथा चाऽस्य दोषस्य समास एव पदवृत्ति-
तेति भावः ।
 
अत एव 'अथ समासगतमेव' इत्यनेन नियमं वदतः काव्यप्रकाशकृतः
समासेध्ष्वेनमुदाहृत्याऽसमासेषूदाहरतो नाऽनवधेयवचनत्वशङ्कापीति
ध्येयम् ।
 
बहुवीहौ यथा--
रेवाभिषेकजनितानुमितातिपुण्यो जातोऽस्म्यसंशयमहं महनीयमूर्ते! ।
क्षोणीतलत्रिदशभूमिरुहं भवन्तं नेत्रद्वयेन यदनेन विलोकयामि ॥