This page has not been fully proofread.

काव्यडाकिन्याः
 
णान्निःप्रयोजनेत्यर्थः । 'गङ्गायां घोषः' इत्यत्र प्रयोजनप्रतिपादक-

स्याऽभावात् । यथा -
 
-
 
कुरङ्गनयने । नूनमनेन तनुरोचिषा ।
 

स्वया सौदामिनी नीता चरणाघातपात्रताम् ॥
 

अत्र चरणाघातेत्यादिना निर्जितत्वं लक्ष्यते । यदि पुनर्जीयत इति

क्रियते तदा निःप्रयोजनलक्षणादोषपरिहारः ।
 

 
यतो व्यवहिता बुद्धिरर्थस्य लिकष्ठमाह तत्
 

 
व्यवहितेति । अनेकपदार्थान्तरितपदार्थसामान्यस्य विशेषस्वरूपा
-
नुपस्थित्या विलम्बिसंतेत्यर्थः । तेन 'पिधत्ते हेरम्वंबं हिमकरकलामौलिम
-
हिषी' इत्यत्र भगवत्या विशेषस्वरूपेणोपस्थितौ न दोषः । यथा-
-
समुद्रमथनोत्पन्नसरित्स्रोतासतसि मज्जता ।
 

सखे ! तत्संमुखेनैव ज्ञातं किमपि चक्षुषा ॥
 

अत्र समुद्रमथनेनोत्पन्नममृतं तस्य नदीप्रवाह इत्यर्थः । समुद्रमथने-

नाऽमृतादन्यस्याऽपि सम्भवादित्यत्र बोधविलम्बेन दोषः ।
 

 
अयथावद्विनिर्देशो विधेयांशस्य यत्र तत् ॥ १६॥

अविसृमृष्टविधेयांशमलङ्कारविदो विदुः ॥
 

 
अयथावद्विनिर्देशस्तु प्रकृते समासेषूद्देश्यविधेयभावतात्पर्य ग्राहक-

प्रकृतिपौर्वापर्यविपर्यासः । तथा चाऽस्य दोषस्य समास एव पदवृत्ति
-
तेति भावः ।
 

 
अत एव 'अथ समासगतमेव' इत्यनेन नियमं वदतः काव्यप्रकाशकृतः

समासे ध्वेन मुदा हत्याऽसमासेषूदाहरतो नाऽनवधेयवचनत्वशङ्कापीति

ध्येयम् ।
 

 
बहुवीहीहौ यथा-
-...mmm
 
·
 
-
रेवाभिषेकजनितानुमितातिपुण्यो जातोऽस्म्य संशयमहं महनीयमूर्ते! ।

क्षोणीतलत्रिदशभूमिरुहं भवन्तं नेत्रद्वयेन यदनेन विलोकयामि ॥