This page has been fully proofread once and needs a second look.

अत्र वार्या वारणीयाः किं गजबन्धिन्येति सन्देहः ।
 
जुगुप्सामङ्गलव्रीडा यदश्लीलं व्यनक्ति तत् ॥ १४॥
 
अत्र जुगुप्सादित्रयं यद्यनक्ति तत्पदं त्रिविधमश्लीलमित्यर्थः । भा-
बाषानिबन्धनमश्लीलत्वं देशविशेष एव । संस्कृतनिबन्धनं तु सर्वदेशसा-
धारणमिति विशेषः । प्रथमं यथा--

वायुं ददस्व घर्मांशुकिरणस्पर्शतापि ते ।
मदङ्के रङ्कुनयने ! शुष्यन्तु स्वेदविन्दवः ॥
 
अत्र वायुशब्दो जुगुप्साव्यञ्जकः । द्वितीयं यथा--

मदीयकांक्रोडपर्यङ्के समुपैहि सुलोचने ! ।
संस्थिताऽसि कुतः कान्ते द्वारोपान्तेऽतिलीनवत् ॥
 
अत्र संस्थितमिति पदममङ्गलव्यञ्जकम् । तृतीयं यथा--

दूरादेव समालोक्य विस्फुरत्साधनं तव ।
वद भूमीपते ! तावत्साध्वसं को न गच्छति ॥

अत्र साधनपदं पुंव्यञ्जनप्रत्यायकतया व्रीडाकरम् ।
 
शास्त्रमात्रप्रसिद्धं यदप्रतीतं तदुच्यते ॥
 
शास्त्रपदमलङ्कारशास्त्रातिरिक्तशास्त्रपरम् । तथा चाऽलङ्कारशास्त्र-
प्रसिद्धे तन्मात्रशास्त्रप्रसिद्धे च न दोषः । शास्त्रान्तरे तु दोष इत्यर्थः ।
अलङ्कारशास्त्रप्रसिद्धशब्दार्थस्य यदबोधः स तु पुरुषदोषो न पुनरल-
ङ्कारशास्त्रस्य । 'न ह्ययमपराधः स्थाणोर्यदन्धस्तं न पश्यति' इति न्याया-
त् । यथा--

आशयाम्भोनिधेरन्तर्निमग्नस्य निरन्तरम् ।
जायतां कथमेतस्य तस्वशात्त्वज्ञानतटस्थितिः ॥

अत्राऽऽशयशब्दो वासनापर्यायत्वेन योगशास्त्रे प्रतीतः ।
 
निषिद्धा लक्षणा यत्र नेयार्थं तत्पदं स्मृतम् ॥ १५॥
 
निषिद्धेति । प्रयोजनप्रतिपादकवाचकशब्दान्तरे सति अवाचकाश्र-