This page has not been fully proofread.

प्रथमा दृष्टि: ।
 
अत्र वार्या वारणीयाः किं गजबन्धिन्येति सन्देहः ।
 

 
जुगुप्साइमङ्गलव्रीडा यदलीलं व्यनक्ति तत् ॥ १४॥
 

 
अत्र जुगुप्सादित्रयं यद्यनक्ति तत्पदं त्रिविधमश्लीलमित्यर्थः । भा-

बानिबन्धनमश्लीलत्वं देशविशेष एव । संस्कृतनिबन्धनं तु सर्वदेशसा
-
धारणमिति विशेषः । प्रथमं यथा-
-
वायुं ददस्व घर्मामांशुकिरणस्पर्शतापि ते ।

मदङ्के रङ्कुनयने ! शुष्यन्तु स्वेदविन्दवः ॥

 
त्र वायुशब्दो जुगुप्साव्यञ्जकः । द्वितीयं यथा-
-
मदीयकांडपर्यङ्के समुपैहि सुलोचने ! ।
 

संस्थिताऽसि कुतः कान्ते द्वारोपान्ते ऽतिलीनवत् ॥

 
अत्र संस्थितमिति पदममङ्गलव्यञ्जक्रम । तृतीयं यथा-
-
दूरादेव समालोक्य विस्फुरत्साधनं तव ।

द भूमीपते ! तावत्साध्वसं को न गच्छति ॥

अत्र साधनपदं पुंव्यञ्जनप्रत्यायकतया बीव्रीडाकरम् ।
 
6
 

 
शास्त्रमात्र प्रसिद्धं यदप्रतीतं तदुच्यते ॥
 
शास्त्रपद

 
शास्त्रपद
मलङ्कारशास्त्रातिरिक्तशास्त्रपरम् । तथा चाऽलङ्कारशास्त्र-

प्रसिद्धे तन्मात्रशास्त्रप्रसिद्धे च न दोषः । शास्त्रान्तरे तु दोष इत्यर्थः ।

अलङ्कारशास्त्र प्रसिद्ध शब्दार्थस्य यदबोधः स तु पुरुषदोषो न पुनरल-

ङ्कारशास्त्रस्य । 'न ह्ययमपराधः स्थाणोर्यदन्धस्तं न पश्यति' इति न्याया-

त् । यथा--

आशयाम्भोनिधेरन्तर्निमग्नस्य निरन्तरम् ।

जायतां कथमेतस्य तस्वशानतटस्थितिः ॥

अत्राऽऽशयशब्दो वासनापर्यायत्वेन योगशास्त्रे प्रतीतः ।
 

 
निषिद्धा लक्षणा यत्र नेयार्थं तत्पदं स्मृतम् ॥ १५॥
 

 
निषिद्धेति । प्रयोजनप्रतिपादकवाचकशब्दान्तरे सति अवाचकाभ.
 
-