काव्यडाकिनि /13
This page has not been fully proofread.
प्रथमा दृष्टि: ।
अत्र वार्या वारणीयाः किं गजबन्धिन्येति सन्देहः ।
जुगुप्साइमङ्गलव्रीडा यदलीलं व्यनक्ति तत् ॥ १४॥
अत्र जुगुप्सादित्रयं यद्यनक्ति तत्पदं त्रिविधमलीलमित्यर्थः । भा-
बानिबन्धनमश्लीलत्वं देशविशेष एव । संस्कृतनिबन्धनं तु सर्वदेशसा
धारणमिति विशेषः । प्रथमं यथा-
वायुं ददस्व घर्माशुकिरणस्पर्शतापि ते ।
मदङ्के रङ्कनयने ! शुष्यन्तु स्वेदविन्दवः ॥
भत्र वायुशब्दो जुगुप्साव्यञ्जकः । द्वितीयं यथा-
मदीयकांडपर्यक समुपैहि सुलोचने ! ।
संस्थिताऽसि कुतः कान्ते द्वारोपान्ते ऽतिलीनवत् ॥
अत्र संस्थितमिति पदममङ्गलव्यञ्जक्रम । तृतीयं यथा-
दूरादेव समालोक्य विस्फुरत्साधनं तव ।
बद भूमीपत ! तावत्साध्वसं को न गच्छति ॥
अत्र साधनपदं पुंव्यञ्जनप्रत्यायकतया बीडाकरम् ।
6
शास्त्रमात्र प्रसिद्धं यदप्रतीतं तदुच्यते ॥
शास्त्रपद मलङ्कारशास्त्रातिरिक्तशास्त्रपरम् । तथा चाऽलङ्कारशास्त्र-
प्रसिद्धे तन्मात्रशास्त्रप्रसिद्धे च न दोषः । शास्त्रान्तरे तु दोष इत्यर्थः ।
अलङ्कारशास्त्र प्रसिद्ध शब्दार्थस्य यदबोधः स तु पुरुषदोषो न पुनरल-
ङ्कारशास्त्रस्य । 'न ह्ययमपराधः स्थाणोर्यदन्धस्तं न पश्यति' इति न्याया-
त् । यथा--
आशयाम्भोनिधेरन्तर्निमग्नस्य निरन्तरम् ।
जायतां कथमेतस्य तस्वशानतटस्थितिः ॥
अत्राशयशब्दो वासनापर्यायत्वेन योगशास्त्रे प्रतीतः ।
निषिद्धा लक्षणा यत्र नेयार्थं तत्पदं स्मृतम् ॥ १५॥
निषिद्धेति । प्रयोजनप्रतिपादकवाचकशब्दान्तरे सति अवाचकाभ.