काव्यडाकिनि /12
This page has been fully proofread once and needs a second look.
अत्र विदधदिति पदं धारणार्थावाचकम् । विपूर्वाहद्देधातेः करण
एव तात्पर्यं नियतम् । अत एवाऽत्र लक्षणयाऽपि न तदर्थभिन्नार्थप्रती-
तिः । न चाऽसमर्थनिहतार्थाभ्यामत्र सङ्कर इति वाच्यम् । विपूर्वाहद्दधा-
तेरनेकार्थत्वाभावात् ।
अव्ययं वृत्तनियमवाक्यार्थानुपकारकम् ॥ १२ ॥
श्लेषाप्रयोजकं यच्च तत्पदं स्यान्निरर्थकम् ॥
अत्र वृत्तनियमानुपकारकं वाक्यानुपकारकं समुच्चयरूपार्थानुपका-
रकमित्यन्वयः । अध्ययमित्यनेनाऽधिकपदनिवारणम् । सर्गबन्धकृतनि-
यमे यमकादिच्छन्दसि वाक्यालङ्कारे लेपालङ्कारे च निरर्थकस्या-
ऽपि चादेः प्रयोगः सर्वसंमतः । यथा--
करोति च सुधावाणि ! विलोचनयुगं तव ।
सुधांशुकिरणस्पृष्ठटसरसीरुहविभ्रमम् ॥
अत्र चशब्दः ।
लोकमात्रप्रसिद्धं यत्पदं तद् ग्राम्यमुच्यते ॥ १३ ॥
प्रसिद्धमिति चमत्कारीत्यर्थः । अन्यथा शास्त्रे प्रसिद्धस्य कटि-
पदस्याऽसङ्गतिः स्यात् । नन्वयं गुणो भवति, न तु दोष इति चेत् न,
लोकपदेन ग्राम्यजनस्याऽभिधानात् । अत एव कटिपदाधुधाद्युच्चारणेन
वोव्रीडाव्यक्तिर्विदग्धानां न तु ग्राम्याणाम् । तेषां तु चमत्कार एव । अ-
श्लीले देशभाषानिबन्धनमपि लज्जादायित्वमत्र तु संस्कृतनिबन्धनमेवेति
विशेषः । यथा--
कटिः कनकवर्णाभा मुखं शीतांशुसुन्दरम् ।
जगद्विजेतुकामस्य कामस्याऽसि पताकिनी ॥
अत्र कटिशब्दः ।
सन्दिग्धं तत्तु तात्पर्यसंशयो यत्र जायते ॥
तात्पर्यसंशयेन यदर्थानिश्चयस्तत्सन्दिग्धमित्यर्थः । यथा--
स्वच्छन्दचारिणो वार्या विना यन्तृनिभास्तव ।
भवन्ति हन्तुमुध्द्युक्ताश्चला इव महीधराः ॥
एव तात्पर्यं नियतम् । अत एवाऽत्र लक्षणयाऽपि न तदर्थभिन्नार्थप्रती-
तिः । न चाऽसमर्थनिहतार्थाभ्यामत्र सङ्कर इति वाच्यम् । विपूर्वा
तेरनेकार्थत्वाभावात् ।
अव्ययं वृत्तनियमवाक्यार्थानुपकारकम् ॥ १२ ॥
श्लेषाप्रयोजकं यच्च तत्पदं स्यान्निरर्थकम् ॥
अत्र वृत्तनियमानुपकारकं वाक्यानुपकारकं समुच्चयरूपार्थानुपका-
रकमित्यन्वयः । अध्ययमित्यनेनाऽधिकपदनिवारणम् । सर्गबन्धकृतनि-
यमे यमकादिच्छन्दसि वाक्यालङ्कारे लेपालङ्कारे च निरर्थकस्या-
ऽपि चादेः प्रयोगः सर्वसंमतः । यथा--
करोति च सुधावाणि ! विलोचनयुगं तव ।
सुधांशुकिरणस्पृष्
अत्र चशब्दः ।
लोकमात्रप्रसिद्धं यत्पदं तद् ग्राम्यमुच्यते ॥ १३ ॥
प्रसिद्धमिति चमत्कारीत्यर्थः । अन्यथा शास्त्रे प्रसिद्धस्य कटि-
पदस्याऽसङ्गतिः स्यात् । नन्वयं गुणो भवति, न तु दोष इति चेत् न,
लोकपदेन ग्राम्यजनस्याऽभिधानात् । अत एव कटिपदा

भवन्ति हन्तुमु