This page has not been fully proofread.

अत्र विदधदिति पदं धारणार्थावाचकम् । विपूर्वाहधातेः करण
एव तात्पर्यं नियतम् । अत एवाऽत्र लक्षणयाऽपि न तदर्थभिन्नार्थप्रती-
तिः । न चाऽसमर्थनिहतार्थाभ्यामत्र सङ्कर इति वाच्यम् । विपूर्वाहधा-
तेरनेकार्थत्वाभावात् ।
 
अव्ययं वृत्तनियमवाक्यार्थानुपकारकम् ॥ १२ ॥
श्लेषाप्रयोजकं यच्च तत्पदं स्यान्निरर्थकम् ॥
 
अत्र वृत्तनियमानुपकारकं वाक्यानुपकारकं समुच्चयरूपार्थानुपका-
रकमित्यन्वयः । अध्ययमित्यनेनाऽधिकपदनिवारणम् । सर्गबन्धकृतनि-
यमे यमकादिच्छन्दसि वाक्यालङ्कारे लेपालङ्कारे च निरर्थकस्या-
ऽपि चादेः प्रयोगः सर्वसंमतः । यथा--
 
करोति च सुधावाणि! विलोचनयुगं तव ।
सुधांशुकिरणस्पृष्ठसरसीरुहविभ्रमम् ॥
 
अत्र चशब्दः ।
 
लोकमात्र प्रसिद्धं यत्पदं तद् ग्राम्यमुच्यते ॥ १३ ॥

प्रसिद्धमिति चमत्कारीत्यर्थः । अन्यथा शास्त्रे प्रसिद्धस्य कटि-
पदस्याऽसङ्गतिः स्यात् । नन्वयं गुणो भवति, न तु दोष इति चेत् न,
लोकपदेन ग्राम्यजनस्याऽभिधानात् । अत एव कटिपदाधुधारणेन
वोडाव्यक्तिर्विदग्धानां न तु ग्राम्याणाम् । तेषां तु चमत्कार एव । अ-
श्लीले देशभाषानिबन्धनमपि लज्जादायित्वमत्र तु संस्कृतनिबन्धन मेवेति
विशेषः । यथा--

कटिः कनकवर्णाभा मुखं शीतांशुसुन्दरम् ।
जगद्विजेतुकामस्य कामस्याऽसि पताकिनी ॥

अत्र कटिशब्दः ।
 
सन्दिग्धं तत्तु तात्पर्य संशयो यत्र जायते ॥
तात्पर्य संशयेन यदर्थानिश्चयस्तत्सन्दिग्धमित्यर्थः । यथा ---

स्वच्छन्दचारिणो वार्या विना यन्तृनिभास्तव ।
भवन्ति हन्तुमुचुध्युक्ताश्चला इ महीधराः ॥