This page has not been fully proofread.

काव्यडाकिन्याः
 
अन
अत्र विदधदिति पदं धारणार्थावाचकम् । विपूर्वाधातःतेः करण

तात्पर्यं नियतम् । अत एवाऽत्र लक्षणयाऽपि न तदर्थभिन्नार्थप्रती
-
तिः । न चाऽसमर्थनिहतार्थाभ्यामत्र सङ्कर इति वाच्यम् । विपूर्वाहा.
हधा-
तेरनेकार्थत्वाभावात् ।
 

 
अव्ययं वृत्तनियमवाक्यार्थानुपकारकम् ॥ १२ ॥

श्लेषणषाप्रयोजकं यच्च तत्पदं स्यान्निरर्थकम् ॥
 

 

 
अत्र वृत्तनियमानुपकारकं वाक्यानुपकारकं समुच्चय रूपार्थानुपका-

रकमित्यन्वयः । अध्ययमित्यनेनाऽधिक पदनिवारणम् । सर्गबन्धकृतनि
-
यमे यमकादिच्छन्दसि वाक्यालङ्कारे लेपालङ्कारे च निरर्थकस्या-

ऽपि चादेः प्रयोगः सर्वसंमतः । यथा-
-
 
करोति सुधावाणि! विलोचनयुगं तष ।
व ।
सुधांशुकिरणस्पृष्ठसरसीरुह विभ्रमम् ॥
 

 
अत्र चशब्दः ।
 

 
लोकमात्र प्रसिद्धं यत्पदं तद् ग्राम्यमुच्यते ॥ १३ ॥

प्रसिद्धमिति चमत्कारीत्यर्थः । अन्यथा शास्त्रे प्रसिद्धस्य कटि-

पदस्याऽसङ्गतिः स्यात् । नन्वयं गुणो भवति, न तु दोष इति चेत् न,

लोकपदेन ग्राम्यजनस्याऽभिधानात् । अत एव कटिपदाधुधारणेन

वोडाव्यक्तिर्विदग्धानां न तु ग्राम्याणाम् । तेषां तु चमत्कार एव । अ-

लीले देशभाषानिबन्धनमपि लज्जादायित्वमत्र तु संस्कृतनिबन्धन मेवेति

विशेषः । यथा-

कटिः कनकवर्णाभा मुखं शीतांशुसुन्दरम् ।

जगद्विजेतुकामस्य कामस्याऽसि पताकिनी ॥

अत्र कटिशब्दः ।
 

 
सन्दिग्धं तत्तु तात्पर्य संशयो यत्र जायते ॥

तात्पर्य संशयेन यदर्थानिश्चयस्तत्सन्दिग्धमित्यर्थः । यथा -

स्वच्छन्दचारिणो वार्या विना यन्तृनिभास्तव ।

भवन्ति हन्तुमुचुक्ताश्चला इच महीधराः ॥