This page has been fully proofread once and needs a second look.

निन्दास्तुत्योस्तात्पर्यविषयत्वात् । निन्दाव्यञ्जकं यथा--
 
सर्वतीर्थाभिषेकेण सर्वदा यागकर्मभिः ।
देहोऽयं मनुजाधीश ! छगलस्येव से शुचिः ॥
 
अत्र छगलस्येवेत्यनेन तत्साहइदृश्यलाभादनीप्सिततद्तचेष्टायाः
प्रतीतिः । स्तुतिव्यञ्जकं यथा--
 
कार्पण्येन पितुस्तुल्यः पितामहपथच्युतः ।
जनैरप्ग्राह्यनामाऽसौ कुपतिस्त्यज्यतां बुधाः ! ||
 
अत्र कस्यचिन्निन्दायां वाच्यायां कुपतिरित्यनेनाऽनभीष्टपृथिवी-
पतिप्रत्ययः ।
 
तात्पर्यविषयीभूतवस्तुधर्मप्रकारिका ॥ ११ ॥
यतो न जायते बुद्धिः पदं तत्स्यादवाचकम् ॥
 
नन्वेमसमर्थेऽतिव्याप्तिरिति चेत्सत्यं, किं तु तत्र वस्तुनोऽपि
नोपस्थितिः क्व तद्धर्मस्य । इह तु केनचिद्रूपेण वस्तूपस्थितिरिति वि-
शेषः । यथा --
 
निर्धना अपि दातारः सेवनीया मनीषिभिः ।
भवन्ति च परित्याज्या धनवन्तोऽपि जन्तवः ॥
 
अत्र जन्तुपदस्याऽदात्रर्थे विवक्षितस्य तदबोधकत्वात् । न च
जन्तुत्वेन रूपेण दातुरभिधायकत्वमप्यस्तीति वाच्यम् । अदातृत्वेना-
ऽदातृप्रतीतेरुद्देश्यत्वात् । यथा वा--
 
त्वय्यदृष्टे प्रियज्योत्स्त्रीनी गाढध्वान्तमभूत्तदा ।
दृष्टे पुनस्तमःसङ्ग्व्याप्ताऽपि रजनी दिनम् ॥
 
अत्र ध्वान्तवैपरीत्याऽभिप्रायेण दिनं प्रकाश इत्युक्तम्, तदर्थे दिन-
पदमवाचकम् । न च लक्षणयाऽत्र बोधः । मुख्यार्थबाधाभावात् ।
यथा वा--
 
करुणाकोमलः पातु कपालं विदधत्करे ।
उद्धर्तुं शोकपाथोधेर्जनान् पोतमिवेश्वरः ॥