This page has not been fully proofread.

प्रथमा दृष्टिः ।
 
-
 
निन्दा स्तुत्यो स्तात्पर्यविषयत्वात् । निन्दाव्यञ्जकं यथा-
-
 
सर्वतीर्थाभिषेकेण सर्वदा यागकर्मभिः ।

देहोऽयं मनुजाधीश ! छगलस्येव से शुचिः ॥

 
अत्र
छगलस्थेयेवेश्त्यनेन तत्साहइयलाभादनीप्सिततद्वतचेष्टायाः
 
अत्र
 

प्रतीतिः । स्तुतिव्यञ्जकं यथा-
-
 
कार्पण्येन पितुस्तुल्यः पितामहपथच्युतः ।

जनैरप्राह्यनामाऽसौ कुपतिस्त्यज्यतां बुधाः !
 
||
 
अत्र कस्यचिन्निन्दायां वाच्यायां कुपतिरित्यनेनाऽनभीष्टपृथिवी-

पतिप्रत्ययः ।
 

 
तात्पर्यविषयीभूत वस्तुधर्मप्र कारिका ॥ ११ ॥

यतो न जायते बुद्धिः पदं तत्स्यादवाचकम् ॥
 

 
नन्वेषमसमर्थेऽतिव्याप्तिरिति चेत्सत्यं, किं तु तत्र वस्तुनोऽपि

नोपस्थितिः व तद्धर्मस्य । इह तु केनचिद्रूपेण वस्तूपस्थितिरिति वि.
-
शेषः । यथा -
 
-
 
निर्धना अपि दातारः सेवनीया मनीषिभिः ।
 

भवन्ति च परित्याज्या धनवन्तोऽपि जन्तवः ॥
 

 
अत्र जन्तुपदस्याऽदात्रर्थे विवक्षितस्य तदबोधकत्वात् । न च

जन्तुत्वेन रूपेण दातुरभिधायकत्वमव्प्यस्तीति वाच्यम् । अदातृत्वेना-

दातृप्रतीतेरुद्देश्यत्वात् । यथा वा-
-
 
त्वय्यदृष्टे प्रियज्योत्स्त्री गाढध्वान्तमभूत्तदा ।

दृष्टे पुनस्तमःसङ्ग्व्यासाप्ताऽपि रजनी दिनम् ॥
 
·
 

 
अत्र ध्वान्तवैपरीत्याऽभिप्रायेण दिनं प्रकाश इत्युक्तम्, तदर्थे दिन-
पद्

पद
मवाचकम् । न च लक्षणयाऽत्र बोधः । मुल्ख्यार्थबाधाभावात् ।
 

यथा वा--

 
करुणाकोमलः पातु कपालं विदधत्करे ।

तुद्धर्तुं शोकपाथोधेर्जनान् पोतमिवेश्वरः ॥