This page has not been fully proofread.

प्रथमा दृष्टिः ।
 
-
 
निन्दा स्तुत्यो स्तात्पर्यविषयत्वात् । निन्दाव्यञ्जकं यथा-
सर्वतीर्थाभिषेकेण सर्वदा यागकर्मभिः ।
देहोऽयं मनुजाधीश ! छगलस्येव से शुचिः ॥
छगलस्थेवेश्यनेन तत्साहइयलाभादनीप्सिततद्वतचेष्टायाः
 
अत्र
 
प्रतीतिः । स्तुतिव्यञ्जकं यथा-
कापण्येन पितुस्तुल्यः पितामहपथच्युतः ।
जनैरप्राह्यनामाऽसौ कुपतिस्त्यज्यतां बुधाः ! ॥
 
अत्र कस्यचिनिन्दायां वाच्यायां कुपतिरित्यनेनाऽनभीष्टपृथिवी-
पतिप्रत्ययः ।
 
तात्पर्यविषयीभूत वस्तुधर्मप्र कारिका ॥ ११ ॥
यतो न जायते बुद्धिः पदं तत्स्यादवाचकम् ॥
 
नन्वेषमसमर्थेऽतिव्याप्तिरिति चेत्सत्यं, किं तु तत्र वस्तुनोऽपि
नोपस्थितिः व तद्धर्मस्य । इह तु केनचिद्रूपेण वस्तूपस्थितिरिति वि.
शेषः । यथा -
 
निर्धना अपि दातारः सेवनीया मनीषिभिः ।
 
भवन्ति च परित्याज्या धनवन्तोऽपि जन्तवः ॥
 
अत्र जन्तुपदस्याऽदात्रर्थे विवक्षितस्य तदबोधकत्वात् । न च
जन्तुत्वेन रूपेण दातुरभिधायकत्वमव्यस्तीति वाच्यम् । अदातृत्वेना-
उदातृप्रतीत रुद्देश्यत्वात् । यथा वा-
त्वय्यदृष्टे प्रियज्योत्स्त्री गाढध्वान्तमभूत्तदा ।
दृष्टे पुनस्तमःसङ्ग्व्यासाऽपि रजनी दिनम् ॥
 
·
 
अत्र ध्वान्तवपरीत्याऽभिप्रायेण दिनं प्रकाश इत्युक्तम् तदर्थे दिन-
पद्मवाचकम् । न च लक्षणयाऽत्र बोधः । मुल्यार्थबाधाभावात् ।
 
यथा वा--
करुणाकोमलः पातु कपालं विदधत्करे ।
उतु शोकपाथोधर्जनान् पोतमिवेश्वरः ॥