This page has been fully proofread once and needs a second look.

अत्र पद्मानिति । अत्र 'वा पुंसि पद्मम्' इति । यद्यपि पद्मशब्दः पुल्लि-
ङ्गे पठितस्तथाऽपि मूलकविभिर्न प्रयुक्तः । न च कोशे प्रयुक्त एव, तस्य
साधुतामात्रप्रदर्शकत्वात् ।
 
शाब्दिकाख्यातमप्यर्थं न बोधयति यत्पदम् ॥ ८ ॥
अन्तरेणोपसन्दानमसमर्थं तदुच्यते ॥
 
शाब्दिकेति । वैयाकरणपठितमपीत्यर्थः । अवाचकस्योपसन्दाने-
नाऽपि विवक्षितार्थबोधकत्वाभावात् । निहतार्थस्य त्वाविलम्बेनाऽप्रसि-
द्धार्थप्रत्यायकत्वात् । अत्र विलम्बेनाऽपि म विवक्षितार्थबोध इति वि
शेषः । यथा--

कैरवबन्धुकरग्रहयादिव व्याकुला हन्ति ।
अस्तं गतवति मिहिरे कैरवशरणं सरोजश्रीः ॥

अत्र हन्तीति पदस्य गमनार्थत्वाभिप्रायेण प्रयुक्तस्योपसन्दानं वि-
ना तदर्थशक्तेरभावात् ।
 
प्रसिद्धेनाऽप्रसिद्धोऽर्थो यस्यार्थेन विधीयते ॥ ९ ॥
तत्पदं व्यर्थमुदितं निहतार्थं विचक्षणैः ॥
 
प्रसिद्धेनेति । रुढ्या झटिति बोधितेनेत्यर्थः । अप्रसिद्ध इति योगेन
विलम्बपूर्वमुपस्थापित इत्यर्थः ।
 
कचस्ते वारिजं तन्धि ।वि मीनौ तध धिलोचने ।
मृणाली बाहुयुगली सरसी प्रतिभासि नः ॥

अत्र वारिजपदस्य पद्मरूपः प्रसिद्धोऽर्थः शैवालरूपमप्रसिद्धमर्थे स्थथं स्थ-
गयति ।
 
व्यनक्ति निन्दास्तोत्रे यत्पदं स्तोतव्यनिन्द्ययोः ॥१०॥
तात्पर्यागोचरीभूते तत्स्यादनुचितार्थकम् ॥
 
अत्र तात्पर्यागोचरीभूते इति विशेषणं व्याजस्तुतिनिधारणाय, तत्र