This page has not been fully proofread.

काव्यडाकिन्या:
 
अत्र पद्मानिति । अत्र 'वा पुंसि पद्मम्' इति । यद्यपि पद्मशब्दः पुंल्लि
ने
-
ङ्गे
पठितस्तथाऽपि मूलक विभिर्न प्रयुक्तः । न च कोशे प्रयुक्त एव, तस्य

साधुता मात्र प्रदर्शकत्वात् ।
 

 
शाब्दिकाख्यातमप्यर्थं न बोधयति यत्पदम् ॥ ८ ॥

अन्तरेणोपसन्दानमसमर्थं तदुच्यते ॥
 

 
शाब्दिकेति । वैयाकरणपठितमपीत्यर्थः । अवाचकस्योपसन्दाने-

नाऽपि विवक्षितार्थबोधकत्वाभावात् । निहतार्थस्य त्वाविलम्बेना प्रसि
ऽप्रसि-
द्धार्थप्रत्यायकत्वात् । अत्र विलम्बेनाऽपि म विवक्षितार्थबोध इति वि

शेषः । यथा-
-
कैरवबन्धुकरग्रहमयादिव व्याकुला हन्ति ।

अस्तं गतवति मिहिरे कैरवशरणं सरोजश्रीः ॥
 
-
 

अत्र हन्तीति पदस्य गमनार्थत्वाभिप्रायेण प्रयुक्तस्योपसन्दानं वि-

ना तदर्थशक्केतेरभावात् ।
 

 
प्रसिद्धेनाऽप्रसिद्धोऽर्थो यस्यार्थेन विधीयते ॥ ९ ॥

तत्पदं व्यर्थमुदितं निहतार्थं विचक्षणैः ॥
 

 
प्रसिद्धेनेति । रुढ्या झटिति बोधितेनेत्यर्थः । अप्रसिद्ध इति योगेन
बि

वि
लम्बपूर्वमुपस्थापित इत्यर्थः ।
 

 
कचस्ते वारिजं तन्धि । मीनौ तब घिध धिलोचने ।

मृणाली बाहुयुगली सरसी प्रतिभासि नः ॥

अत्र वारिजपदस्य पद्मरूपः प्रसिद्धोऽर्थः शैवालरूपमप्रसिद्ध मर्थे स्थ

गयति ।
 

 
व्यनक्ति निन्दास्तोत्रे यत्पदं स्तोतव्यनिन्द्ययोः ॥१०॥

तात्पर्यागोचरीभूते तत्स्यादनुचितार्थकम् ॥
 

 
अत्र तात्पर्यागोचरीभूते इति विशेषणं व्याजस्तुतिनिधारणाय, तत्र