This page has not been fully proofread.

कामसूत्रम् ।
 
६ आदितोऽध्यायः]
 
कालयोगीन्यपीति । अपिशब्दाद्भावयोगीन्यपि । अन्यथा कण्डूत्यपनो-
दसुखस्य विसृष्टिसुखस्य वा वैसादृश्यात्कथं भावतो नव रतानि ।
रतिरतयोर्व्यवहारार्थं पर्यायान्तरमाह -
 
रसो रतिः प्रीतिर्भावो रागो वेगः समाप्तिरिति रतिपर्यायाः ।
संप्रयोगो रतं रहः शयनं मोहनं सुरतपर्यायाः ॥
 
८८
 
फलावस्था रतिः । हेत्ववस्था च रतम् । तयोः पर्यायशब्दानामेका-
र्थविषयत्वेऽपि निमित्तं भिद्यते । यथा – ऐश्वर्ययोगादिन्द्रः शक्तियोगा-
च्छॠः । तेत उपस्थेन्द्रियेण रसनादनुभवनाद्रसः । फलावस्थायां सुख-
त्वेन चित्तपरिस्पन्देन रमणाद्वतिः । चित्तप्रणयात्प्रीतिः । कामिताख्येन
भावेन माव्यमानत्वाद्भावः । कामिताख्योऽपि भाव्यते फलरूपोऽनेनेति
भावः । चित्तरञ्जनाद्रागः । शुक्रधातोः सुखानुविद्धस्य नाडीसुखात्पृथग्भ-
वनाद्वेगः । रतस्य समापनात्समाप्तिरिति । असंगतयोः स्त्रीपुंसयोः सम्य-
• क्प्रकृष्टो योगः संप्रयोगः । हेत्ववस्थायां वा क्वापि चित्तपरिस्यन्देन रमणा-
द्रुतम् । दंपतिव्यतिरिक्तमन्यं रहयतीति रहः । शैयनीयप्रतिशय्यिकयोः
शयनाच्छयनम् । अन्यव्यापारेषु मोहनाद्वैचित्यकरणान्मोहनमिति ।
 
प्रमाणकालभावजानां संप्रयोगाणामेकैकस्य नवविधत्वात्तेषां
व्यतिकरे सुरतसंख्या न शक्यते कर्तुम् । अतिषहुत्वात् ॥
 
प्रमाणकालभावजानां त्रयाणां रतानामेकैकस्य नवविधत्वात्समुदायेन
सप्तविंशतिः । द्विविधं रतम् —– शुद्धं संकीर्ण च । तत्र शुद्धस्यासंभवात्सं-
कीर्णमेव युक्तमभिधातुमिति मन्यमानः शास्त्रकार आह – तेषामिति ।
सप्तविंशतिसंख्यानां व्यतिकरे संयोगे । तत्रापि न द्वाभ्याम् । असंभवात् ।
त्रिभिरेव व्यतिकरः । सुरतसंख्या न शक्यते वक्तुम् । प्रत्येकनिर्देशेनाति-
वहुत्वात् । तेषु हि प्रत्येकं निर्दिश्यमानेषु ग्रन्थगौरवं स्यात् । संक्षेपेण च
संख्यानस्य प्रयोजनं नास्ति । तस्मात्पूर्वसंख्ययैव योजनीयमित्यभिप्रायः ।
 
2
 
१.
 
'सुरत' इति पद पुस्तकान्तरे नास्ति. २. 'तत्र'. ३. 'दपत्योः'. ४. 'दंपति-
द्रव्यातिरिकमन्यम्'. ५. 'शयनीये प्रतिशय्यिकायाम्' ६. 'सप्तविंशतिरतानाम् .
 

 
L