This page has not been fully proofread.

१ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
एवं च सति 'उपायवैलक्षण्यं तु सर्गात्' इति यदुक्तं तदमिहितं प्रतिवि-
हितं पुरस्ताद्रष्टव्यम् । कर्त्राधारलक्षणस्यैवावास्तवत्वात् । तेन प्रतिविहि-
तेनोभयोरपि स्त्रीपुंसयोः सदृशी सुखप्रसिद्धिः । कालस्वरूपाभ्यां सदृशं
सुखमुत्पद्यत इत्यर्थः । अन्यथा कथं तयो रागज्वरोपशमः । तामेवात्य -
न्तिकीमानन्दावस्थामधिकृत्योपस्थेन्द्रियमानन्देन्द्रियमिति गीयते ।
अमुमेवार्थी शास्त्रकारः संग्रहश्लोकेनाह -
 
जातेरभेदाद्दंपत्योः सदृशं सुखमिष्यते ।
तस्मात्तयोपचर्या स्त्री यथाग्रे मानुयाद्वतिम् ॥
दंपत्योः स्त्रीपुंसयोः । एकार्थाभिप्रपन्नयोरित्यर्थः । एतावत्तु स्यात्,
अवान्तरस्त्रीजातिभेदाद्यदपरमस्याः कॅण्डूत्यपनोदसुखं यच्चोषमृद्यमाने सं-
बाघे स्यन्दनं शुक्रस्य । विसृष्टिसुखं तु पुरुषवदन्त एवेति । यथोक्तम्-
'कण्डूत्यपगमात्स्त्रीणां क्षरणाच्च सुखं द्विधा । स्यन्दनं च विसृष्टिश्च
शुक्रस्य क्षरणं द्विधा ॥ किन्नता केवलस्यन्दाद्विसृष्टेर्मथनात्सुखम् । अन्ते
त्वाक्षिप्तवेगाया विसृष्टिर्नरवत्स्मृता ॥ तत्र रेंसाइंपत्योः समकाला चेंद्र-
तिरुत्तमः पक्षः । समरतत्वात् । भिन्नकाला चेत्, पुरुषस्य प्रागधिगतभा-
वाज न स्त्री भावमधिगच्छेत् । तस्मात्समरताद्विषमरते तथोप-
चर्या स्त्री चुम्बनालिङ्गनादिमिरुपचरणीया यथाग्रे प्राप्नुयाद्वतिम् । स्त्रिया
प्रागघिगते भावे पुरुषो युक्तयन्त्रो वेगं कुर्यादात्मनो भावं निर्वर्त-
यितुं मिति ।
 
-
 
सदृशत्वस्य सिद्धत्वात्, कालयोगिन्यपि भावतोsपि कालतः
प्रमाणवदेव नव रतानि ॥
 
१. 'वास्तवत्वात्. २. 'तस्या.'; 'तया'. ३. 'उपाचार्या'. ४. 'स्त्रीपुसो:'.
५. 'कल्यपगमात्सुखम्'. ६. 'उपमृद्यमानेन'. ७. 'अन्तरा चेति'. ८. 'यथा
चोकम्'. ९. 'रसे'. १०. 'च'.
११. 'ध्वजवेगे'. १२. 'युक्तयन्त्र वेगम';
'युतयत्रोवशम्'. १३. 'निष्पादयितुम्'. १४. 'भावतोऽपि कालत.' इति पुस्त-
कान्तरे नास्ति.