This page has not been fully proofread.

कामसूत्रम् ।
 
६ आदितोऽध्यायः]
 
देवदत्तः काष्ठैः स्थाल्यामोदनं पचतीत्यादौ देवदत्तादिभिः कर्तृकर-
णाघारैः कारकैः संम्यौदनं दृश्यते । परस्परसाधकौ पुनरिमौ स्त्रीपुंसौ ।
यतो युवतिराधारः पुरुषव्यापारापेक्षः स्वसंतानेषु सुखाख्यं स्वार्थ साध-
यति पुरुषश्च कर्ता व्यापारापेक्ष इति । एतच भिन्नार्थसाधकत्वं कारका-
णामयुक्तम् । ओदनादावदृष्टत्वात् । दृश्यते च स्त्रीपुंसयोः कर्त्राधारयोः
सुखरूपं पृथक्कार्यं तथा समानाकृतित्वमपि । तदेव कार्ये कालस्वरूपाभ्यां
विसदृशं स्यादित्यभिप्रायः ।
 
तच्च न । युगपदनेकार्थसिद्धिरपि दृश्यते । र्यंथा मेषयोरभि-
घाते कपित्थयोर्भेदे मल्लयोर्युद्ध इति । न तत्र कारकभेद इति चे-
दिहापि न वस्तुभेद इति । उपायवैलक्षण्यं तु सर्गादिति तदभिहितं
पुरस्तात् । तेनोभयोरपि सदृशी सुखप्रतिपत्तिरिति ॥
 
तच्च नेति । नैतद्युक्तं किं तु युक्तमेव । युगपदनेकार्थसिद्धिदर्शनात् ।
यथा मेषयोरभिघात ईति । अभिघातविषये युगपदनेकार्थसिद्धिदृश्यते ।
युगपद्विधा चाभिघातो भवतीत्यर्थः । एवं कपित्थयोदे मल्लयोर्युद्ध
इति । तथा स्त्रीपुंसयोः कारकयोः पृथक्कार्य सदृशं चं स्यादिति । मेष-
कपित्थमल्लग्रहणं तिर्यगचेतनमनुष्येष्वप्यस्य न्यायस्य प्राप्तिख्यापना-
र्थम् । तत्र को भेद इति चेत्, तत्रैतत्स्यात् । मेषादियुद्धादावपि प्रति-
योगिनौ कर्तारौ न तत्र कारकान्तरम् । इह तु कर्त्राधाराविति । कैथं न
विसदृशं कार्यमित्याशङ्कयाह — इहापीति । स्त्रीपुंसयोरपि न कश्चित्परमा-
र्थतः कारकयोर्मेंदः, अपि तु द्वावप्येतौ कर्तारौ क्रियां निर्वर्तयतः । के-
वलं करणाधिकरणादयो भेदा बुद्धिकल्पिता व्यवहारार्थ व्यवस्थाप्यन्ते ।
 
१. 'अधिकारैः. ' २. 'संभूयौदन' इत्यस्मादप्रे पुस्तकान्तरे ..............
 
४. 'कारणमयुक्तम्.'
 
एतादृश त्रुटिचिदमस्ति.
रूपम् इति पुस्तकान्तरे नास्ति.
८. 'सर्गादभिहितम्'; 'निसर्गादिति
न्तरे नारिख १०. 'मलयोर्वाहुयुद्धे'.
तंयन्तौ .
 
३. 'खस्तनेपु.'
 
६. 'तद्यथा'.
तदभिहितम् .
 
७. 'नियुद्धे'; 'वाहुयुद्धे.
९. 'इति' इति पुस्तका-
११. 'केन विसदृशम्'. १२. 'निर्व-