This page has not been fully proofread.

1
 
e
 
*(
 
14
 
"
 
?
 
=
 
१ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
पुरुषोऽभिमन्यमानोऽनुरज्यते । अहमनेनाभियुक्ता रन्तुमिति चाधारव्या-
पारापेक्षया युवतिरभिमन्यमानानुरज्यते । ततश्च तावुत्पन्नाभिमानानुरागौ
संप्रयोगे व्याप्रियमाणावपि कालस्वरूपाभ्यां सदृशं भावमभिगच्छतः ।
न तु क्रियाभेदमात्राद्विसदृशम् । ततो ह्यभिमानमात्रं मिद्यते न कार्यमे
तच्चेतसि कृत्वा शास्त्रकारी व्यक्ताभिप्रायं स्वपक्षं दर्शयति स्वनाम्रा ।
 
-
 
परस्यापि शास्त्रकारेण भिन्नवैलक्षण्यमेभ्युपगतोपायवैलक्षण्यमभ्युप-
गतं तस्मात्त्वयं कथं कार्यभेदः, परं नाभ्युपगच्छेदित्यभिप्रायो वर्तते तन्नि-
राकर्तुं शास्त्रकारः प्रकटयति-
तत्रैतत्स्यादुपायवैलक्षण्यवदेव हि कार्यवैलक्षण्यमपि कस्मान्न
स्यादिति । तच्च न । हेतुमदुपायवैलक्षण्यम् । तत्र कर्त्राधारयोभिन्न-
लक्षणत्वादहेतुमत्कार्यवैलक्षण्यमन्याय्यं स्यात् । आकृतेरभेदादिति ॥
उपायवैलक्षण्यवदिति । यथानयोर्व्यापारो मिन्नोऽभ्युपगतस्तद्वदेव सु-
खाख्यमपि कार्यं भिन्नं कस्मान्नाभ्युपगम्यते तज्जन्यत्वादित्याशङ्कचाह -
तच्च नेति । तज्जन्यत्वे कार्यस्य न वैलक्षण्यमेव युक्तं तस्माद्धेतुमदुपायवै-
लक्षण्यं कुत इत्याह कर्त्राधारयोर्मिनलक्षणत्वादिति । स्वतन्त्रः कर्ता ।
अधिकरणमाघारः । तयोर्हेत्वोभिन्नस्वभावत्वाद्व्यापारावपि तज्जन्यत्वाद्भि-
नावित्यर्थ: । यत्तु कार्यस्य तज्जन्यत्वेऽपि न वैलक्षण्यं तस्य निरूप्य-
माणोऽन्यो हेतुर्नास्तीत्याह – अहेतुत्वाच्च कार्यवैलक्षण्यमिति । अन्याय्यं
युक्तिशून्यमभ्युपगतं स्यात् । तामेव युक्तिं स्मारयन्नाह - आकृतेरमेढादि-
ति । समानायामेव मनुष्यजातावेकाभिसंघानयोः स्त्री पुरुषयोर्व्यापारौ पर-
स्परापेक्षौ कालस्वरूपाम्यां सदृशं सुखं जनयतः ।
 
-
 
तत्रैतत्स्यात् । संहत्य कारकैरेकोऽर्थोऽभिनिर्वर्त्यते । पृथक्पृथ-
क्स्वार्थसाधको पुनरिमौ तदयुक्तमिति ॥
 
१. 'व्यापारचित्तया'. २. 'अभ्युपगच्छेत । उपायवैलक्षण्यम्'. ३. 'चायम्'.
४. 'कस्मात्कार्यवैलक्षण्यमपि न. ५. 'प्रकृते.. ६. 'कर्त्राधारभिन्न-'. ७. 'प्रकृतेः'.
८. 'पृथक्परस्परखार्थ-