2023-02-19 13:58:57 by ambuda-bot
This page has not been fully proofread.
८४
कामसूत्रम् ।
६ आदितोऽध्यायः]
तत्र विजातीययोः पुरुषवडवयोर्मवेत्सुखं वैसादृश्यमित्याह——समाना-
यामेवाकृताविति । तुल्यायां मनुष्यजातौ । तुल्यजातीययोरपि खान-
भोजनार्थं प्रवर्तमानयोः स्यादित्याह – एकमिति । एकं रताख्यमर्थमाभि-
मुख्येन प्रवृत्तयोः । कथं कार्यवैलक्षण्यं स्यात् । उपायवैलक्षण्यादभिमा-
नवैलक्षण्याच्च । कथमुपायवैलक्षण्यं च । निसर्गात् । तत्र विजातीययोः
पुरुषवडवयोर्भावसुखस्य बैजातीयकार्यस्य सुखस्य स्वरूपतः कालतश्च
अभेदो नेत्यर्थः । ये च समानाकृतयः सन्त एककार्यामिपन्नास्तेषां सदृशं
कार्यम् । नहि मेषयोः समानाकृत्योरेकस्मिन्युद्धलक्षणार्थे प्रवृत्तयोरभि-
घातः कार्ये कालखरूपाभ्यां मिद्यते । इति । पुनः पुनः शास्त्रकार एव
परपक्षमेंपोहयन्नाह — स्यादुपायवैलक्षण्यादिति । भवेत्तत्र कार्यभेद उपा-
यभेदात् ।
कथनुपायवैलक्षण्यं तु सर्गात् । कर्ता हि पुरुषोऽधिकरणं यु-
वतिः । अन्यथा हि कर्ता क्रियां प्रतिपद्यतेऽन्यथा चाधारः । त-
स्माञ्चोपायवैलक्षण्यात्सर्गादभिमानवैलक्षण्यमपि भवति । अभियो-
क्ताहमिति पुरुषोऽनुरज्यते । अभियुक्ताहमनेनेति युवतिरिति 1
वात्स्यायनः ॥
कथमिति । स चोपायमेदो निरूप्यमाणः स्त्रीपुंसव्यापारव्यतिरेकेण
नास्तीत्याह – उपायवैलक्षण्यं तु सर्गादिति । उपायभेदः सृष्टेरित्यर्थः ।
ए॒षैव हि सृष्टिः स्त्रीपुंसयोर्यदेकः कर्तान्यश्चाघार इति । तदेव योजय-
न्नाह – अन्यथेति । एकस्य निम्मं मेहनमपरस्योन्नतम् । ततश्च प्रास्यप्रा-
सकभावान्मेहनयोः क्रियाभेदः । तस्माच्चैवंभूतव्यापारात्मकत्वादुपायवै-
लक्षण्यान्न केवलं भवति तत्कार्यभेदोऽभिमानभेदोऽपि भवति तदेव दर्श-
यन्नाह — अभियोक्तेत्यादि । अहमेनां रन्तुमनुयुने इति कर्तृव्यापारापेक्षया
-
१. 'नानभोजनादावतिशयप्रवृत्तमानयोः; 'नानभोजन एवातिशयप्रवृत्तमानयोः.
२. 'सुखस्य वै कार्यस्य'. ३. 'मेदादित्यर्थ: ' ४. 'अपोहन्'. ५. निसर्गात्'. ६. 'आ-
चारः'. ७. 'रज्यते'. ८. 'अन्यस्य'.