This page has not been fully proofread.

१ अध्याय:]
 
२ सांप्रयोगिकमधिकरणम् ।
 
८३
 
दण्डे सूत्रत्याक्षिप्ते त्रान्तिसंस्कारे समानेऽप्यादिमध्यावसानेषु भ्रान्त्या-
मेव वर्तमानयोरन्यथा प्रान्त्यभावात्तत्संस्कारोऽस्तीति कथं प्रतीयते । प्रा-
रम्मे मन्दवेगता मन्दभ्रमणम् । ततः क्रमेण तरतमभेदेन पूरणं वेगस्य ।
यथा तत्कुलालचक्रं भ्रमरकं वा निश्चलतरमिव स्थितमिति एवं योपितो-
sपि पुरुषणोपैसृप्तादिभिः प्रत्ययैरुत्पद्यमाने विसृष्टिसुखे समानेऽप्यादिम-
ध्यावसानेपु प्रारम्भकाले मन्दवेगता मृद्धी रतिः । तंत्र मध्यस्थचित्तता
नातिसहिष्णुता च । ततः क्रमेण पूरणं वेगस्याधिक्यं रतेः । यत्राधिकचि-
त्तवृत्त्या शरीरनिरपेक्षत्वमिति । सातत्येन भावस्य प्रवृत्तत्वात्कथं विरा-
माभीप्सेत्याह - धातुक्षयाच्चेति । समुत्पन्ने कामिताख्ये भावे यः शुक्र-
धातुः स्वस्थानाच्युतः स्वनाडीं प्रतिपद्यते तस्यारम्भात्प्रभृति शनैः शनैः
स्यन्दनात्क्षये निवृत्तरागत्वाद्विरामाभीप्सा । तस्मादनाक्षेप इति अचोद्यं
विसृष्टिप्रभवस्य भावस्य संतानेन प्रवृत्तस्यावस्थान्तरमनुपपन्नमिति ।
अमुमेवार्थ बाम्रव्यगीतेन लोकेनाह-
सुरतान्ते सुखं पुंसां स्त्रीणां तु सततं सुखम् ।
धातुक्षयनिमित्ता च विरामेच्छोपजायते ॥
एवं पक्षद्वयमुपन्यस्य सिद्धान्तमाह-
तस्मात्पुरुषवदेव योषितोऽपि रेसव्यक्तिद्रष्टव्या ॥
यत एवं विवादस्तस्माद्रसव्यक्ती रत्युत्पत्तिर्यथा पुरुषस्य विसृष्टिरन्ते
च तद्वदेव योषितोऽपि द्रष्टव्या ।
 
पुरुषसुखेन हि स्त्रीसुखस्य वैसादृश्यं स्वरूपतः कालतो वा स्यादि-
त्याक्षिपति -
 
कथं हि समानायामेवाकृतावेकार्थमभिप्रपन्नयोः कार्यवैलक्षण्यं
स्यादुपायौलक्षण्यादभिमानवैलक्षण्याच्च ॥
 
१. 'दण्डस्तन्त्र'. २. 'प्रत्याक्षिप्तो'. ३. 'प्रवर्यमानयोः'. ४. 'उपसृष्टादिभिः.
५. 'उपपद्यमाने. ६. 'यत्र'. ७. 'यत्राधिकरणे वृत्तवृत्त्या'; 'यत्राधिकवृत्तवृत्त्या'.
'खनाडी:'. ९. 'रसस्य व्यक्तिर्दृष्टव्या'; 'रतिर्दृष्टव्या'.