This page has not been fully proofread.

८२
 
कामसूत्रम् ।
 
६ आदितोऽध्यायः]
 
प्रतीकारोऽपि दीर्घकालः प्रिय इति कण्डूत्यपनोदाभावाच्च शीघ्रवेगे च
प्रद्वेषः । सत्यपि भावाधिगमे कण्डूत्यपनोदस्योधिककालस्याभावात् । अ-
थवा दीर्घकालं भावजननमपि प्रियमिति योज्यम् । भावस्याधिकृतत्वात् ।
शींघ्रवेगे च विरज्यन्ते । चिरकालं भावस्याजननात् । योषितो हि चिरा-
नुबन्धनं भावमुत्पद्यमानमिच्छन्ति । तासामष्टगुणकामत्वात् । एवं सति
न पुंभिर्वामलोचनास्तृप्यन्तीति युक्तम् । तेषामेकगुणकामत्वात्, न पुन -
र्विसृष्टिसुखाभावादिति । भूयश्चेति पुनराशङ्कार्पेरिहारः ।
 
यदाह -
 
-
 
तत्रैतत्स्यात् – सातत्येन रसमाप्तावारम्भकाले मध्यस्थचित्तता
नातिसहिष्णुता च । ततः क्रमेणाधिको रागयोगः शरीरे निरपेक्ष-
त्वम् । अन्ते च विरामाभीप्सेत्येतर्दुपपन्नमिति ॥
 
रतस्यारम्मकाले मध्यस्थचित्तता नखक्षतादीनामप्रयोगः । नातिसहि-
प्णुता च नखक्षतादीनां प्रयुज्यमानानां नातिक्षमिता । ततश्च क्रमेणार-
म्भादुत्तरकालं तरतमभेदादधिकरागयोग इति मध्यस्थचिततायां विप-
र्ययः । शरीरेऽपि निरपेक्षत्वमित्यतिसँहिष्णुतया । अन्ते च विरामाभीप्सा
प्रयोगनिवृत्तीच्छा । एतत्सर्वमवस्थान्तरं योषितः सातत्याद्रसप्राप्सौ सत्या-
मनुपपन्नम् । प्रारम्भात्प्रभृत्येकरूपतया सातत्येन विसृष्टिसुखस्य प्रवृत्त -
त्वात् । पुरुषस्य विसृष्टयवस्थायामेतदवस्थान्तरं दृश्यत इति ।
 
तच्च न । सामान्येऽपि भ्रान्तिसंस्कारे कुलालचक्रस्य भ्रमरकस्य
वा भ्रान्तावेव वर्तमानस्य प्रारम्भे मन्दवेगता ततश्च क्रमेण पूरणं
वेगस्येत्युपपद्यते । धातुक्षयाच विरामाभीप्सेति । तस्मादनाक्षेपः ॥
 
नैवानुपपन्नम् । कुलालचक्रादिवदुपपद्यत एव । अमरकं काष्ठमयं क्री-
डनकद्रव्यम् । यद्दीर्घेण सूत्रेणावेष्टय लाडिका भ्रमयन्ति । यथा तयो-
चल
 
१. 'सत्यप्यधिगमे'. २. 'अधिकलामस्याभावात्'; 'अधिककालाभावस्याभावात्.
३. 'चिरानुवन्धितम्'. ४. 'परिहारी'. ५. 'अन्ते धातुक्षयात्'. ६. 'अनुपपन्नम् .
७. 'सहिष्णुताया: '.