2023-02-19 13:58:57 by ambuda-bot
This page has not been fully proofread.
१ अध्यायः]
२ सांप्रयोगिकमधिकरणम् । '
८१
द्वावपि विसृष्टिसुखमधिगच्छतः । स्त्री त्वारम्भाद्यन्त्रयोगात्प्रभृति सा-
तत्यान्नैरन्तर्येण । सा हि पुरुषेणोपसृप्यमाणा प्रमिन्ननलभाण्डवच्छनैः
क्लिन्नसंबाधा भवतीति प्रत्यक्षसिद्धमेतत् । सुखं च पुरुपस्येव विसृष्टचनु-
विद्धमित्यारम्भात्प्रभृति भावमधिगच्छति । पुरुषः पुनरन्ते भावमधि-
गच्छति । तदानीं शुक्रविसर्गात् । एतदिति यथोक्तमुपपन्नतरम् । प्रमा-
णसिद्धत्वात् । ततश्च तयोर्मिन्नकालत्वान्न सादृश्यमिति न कालतो नव
रतानि । भावतस्तु सन्ति । विसृष्टिसुखसादृश्यात् । ननु संवाघो व्रणस्व-
भावत्वादुपनुद्यमानः क्लिद्यतीत्याह – नहीति । रसप्राप्तौ विसृष्टिसुखाधिग-
मे तृप्ता हि स्त्री गर्ने धत्ते । यथाह चरककार: – 'निष्ठीविका गौरवम-
ङ्गसादस्तन्द्रा प्रहर्षो हृदयव्यथा च । तृतिश्च वीजग्रहणं स्वयोन्यां गर्भ-
स्य सद्योऽनुगतस्य लिङ्गम् ॥ इति । तृतिश्चै भावः । स च न शुक्रवि-
टं विनेत्यभिप्रायः । आर्तवं विसृजति न शुक्रमिति केचित् । यथाह -
कामाभितप्तचित्तस्त्रीपुंसयोरन्योन्यदेहसंसर्गादरणीदण्डाभ्यामिव वहिः शु-
कार्तवमथनादिति । अस्ति तावत्ततिनिबन्धनं कि तदिति चिन्त्यते ।
यदि तन्त्र शुक्रं कथं योषितो गर्भसंभव उत्पद्यते । येथा हि पुरुषसंसर्गा-
त्स्त्री गर्भ धत्ते तथा योषित्संयोगादपि । यथोक्तं सुश्रुते-'यदा नारी च
नारी च मैथुनायोपपद्यते । अन्योन्यं मुञ्चतः शुक्रमनस्थिस्तत्र जायते ॥
तस्माद्रसधातोरुत्पन्नोऽसृग्धातुरेव कस्यांचिदवस्थायामार्तवम् । शुक्रधातु-
स्तु मज्जधातोरुत्पद्यत इति ।
-
अत्रापि तावेवाशङ्कापरिहारौ भूयः ॥
अनापीति बाम्रव्यमतेऽपि । तावेवेति पूर्वोक्तावशङ्कापरिहारौ वाच्यौ ।
तत्र यद्यारम्भात्प्रभृति भावाघिगमस्तदा चिरवेगेऽनुरज्यन्ते शीघ्रवेगस्य
चावसानेऽभ्यसूयिन्य इत्ययं भेदो न युज्यते । तत्र यत्राप्यासां भावाधि-
गमाद्दृश्यते च भेदः । यस्माद्नुरागस्तस्मादन्ते पुरुषवद्भावस्य प्राप्तिः ।
यतः सासूया तस्मान्नारम्भात्प्रभृतीत्याशङ्कार्पेरिहारोऽपि । तन्न । कण्डूति-
१. 'तु'. २. 'तयाहि'. ३. 'प्रसङ्गादपि'. ४. 'परिहारौँ'.
का० ११