2023-02-19 13:58:57 by ambuda-bot
This page has not been fully proofread.
4
कामसूत्रम् ।
६ आदितोऽध्यायः ]
[इति सुर्ख] रतिसुखमिति विरज्यन्ते । तस्मात्पुरुषस्येव योषितोऽप्यनुरा-
गोपलम्भाद्विसृष्टिसुखाधिगमः प्रतीयते इति
तच्च न । कण्डूतिप्रतीकारोऽपि हि दीर्घकालं प्रिय इति । ऐत-
दुपपद्यत एव । तस्मात्संदिग्धत्वादलक्षणमिति ॥
तच्च नेति अनुरागो भावप्राप्तेलिंङ्गमित्येतन्नास्ति । साधारणत्वादस्य ।
तैदाह — कण्डूतिप्रतीकारोऽपि हीति । तस्माच्चिरवेगेन कण्डूतेर्यः प्रती-
कारः प्रतिक्रिया दीर्घकाल इत्यतिचिरकालः सोऽपि स्त्रीणां प्रियः ।
न केवलं विसृष्टिसुखजननमेतदुपपद्यते [एव न तु नोपपद्यते] एवेत्यनेन
योगव्यवच्छेदेन भवत्पक्षेऽप्येतदस्तीति दर्शयति । अन्यथा विसृष्टिसु-
खाधिगमेऽपि कण्डूतेरप्रतीकारान्न तत्रानुरागः । ततश्च किं विसृष्टिसुखा-
धिगमादनुरागोऽस्याः किं वा कण्डूतिमतीकारसमुत्य इति संदिग्धः ।
तथानघिगमात् । विरागोऽपि शीघ्रवेगे योज्यते । तस्मादेतदुभयं संदिग्ध-
त्वाद्विसृष्टिसुखस्य प्राप्तेरप्राप्तेश्च लक्षणमज्ञापकम् । उभयत्र वर्तमानत्वात् ।
तस्मात्स्वेच्छया विरामाविरामावेव ज्ञापकौ । तौ च स्त्रियां वर्तमानौ स्तः
इति न पुरुषवद्रतिमधिगच्छतीति स्थितम् ।
एतदेव मतमौद्दालकिगीतेन श्लोकेनाह -
संयोगे योषितः पुंसा कण्डूतिरपनुद्यते ।
तेच्चाभिमानसंसृष्टं सुखमियभिधीयते ॥
कैण्डूत्यपनोदसमुत्थं स्पर्शसुखमभिमानसंसृष्टमिति कारणे कार्योप-
चारादाभिमानिकसुखानुविद्धं सुखमित्यभिधीयते योषिद्भिः ।
बाम्रव्यमतमाह-
HAMDA
सातत्याधुवतिरारम्भात्मभृति भावमधिगच्छति । पुरुषः पुन-
रन्त एव । एैतदुपपन्नतरम् । नासत्यां भावशासौ गर्भसंभव इति
वाभ्रवीयाः ॥
१. 'पुरुषवत्'. २. 'तत् ३. 'यदाह'. ४. 'अपीष्टः'. ५. 'तथा
भिमान'; 'सा चाभिमान'. ६. 'तचेल्यपनोदसमुत्यम्'. ७. 'तदुपपन्नतरम्';
'तदुपपन्नतरकम्'. ७. 'गर्भसंभव उपवद्यते'.