This page has not been fully proofread.

१ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
७९
 
--
 
प्रकारेण तव सुखं किं विसृष्ट्या यथास्माकं किं वान्येनेति । तत्र स्त्रिया
विसृष्टिसुखस्यासंवेदनात्प्रकारान्तरसुखस्य च पुरुषेणासंवेदनात्प्रष्टुमपि न
शक्यते । किमुत तद्वचनात्परिज्ञानम् । तस्मात्पुरुषवद्भावं नाघिगच्छतीति
कथमेतदुपलभ्यत इत्याशङ्कचौद्दालकिरुपलब्ध्युपायमाह — पुरुषो हीति ।
पुरुषो रतिमधिगम्य विसृष्टिसुखमनुभूय कृतकृत्यत्वात्खेच्छया व्यापारा-
द्विरमति न स्त्रियमपेक्षते व्याप्रियमाणामपि । न त्वेवं स्त्रीति । सापि
यदि पुरुषवद्विसृष्टिसुखमधिगच्छेत्तदा तदधिगम्य पुरुपनिरपेक्षा खेच्छया
यन्त्रविश्लेषपूर्वकं विरमेत् । न चैवमन्यत्र पुरुपविरामात् । विरतेऽपि
पुंसि पुरुषान्तरसापेक्षत्वात् । तथा हि केनचित्युंसा संप्रयुज्य तथावस्थि-
तै [रे] वापरैः संप्रयुज्यमाना काचिदृश्यते । अत एवोक्तम् – 'अभिस्तु-
प्यति नो काठैर्नापगाभिः पयोदधिः । नान्तकः सर्वभूतैथ्य न पुंभिर्वा -
मलोचना ॥" इति । तस्मात्स्वेच्छया विरामाभावान्न विसृष्टिसुखाधिगमो
यथा प्राग्विसृष्टेः पुरुषस्येति ।
 
तत्रैतत्स्यात् । चिरवेगे नायके स्त्रियोऽनुरज्यन्ते शीघ्रवेगस्य भाव-
मनासाद्यावसानेऽभ्यसूयिन्यो भवति । तत्सर्वे भावमातेरमातेश्च
लक्षणम् ॥
 
मा भूत्स्वेच्छया विरामोपलम्भात्त्रीपु विसृष्टिसुखानुभूतिः, अनुराग-
दर्शनात्तु स्यात् । तद्यथा चिरखेगे नायके चिरमुपसृत्य विसृष्टिसुखाषिग-
माद्विरते स्त्रियोऽनुरज्यन्ते । त्रिचन्तीत्यर्थः । शीघ्रवेगस्य च नायकस्य
क्षिप्रमुपसृत्य सुखाधिगमाद्विरतस्य रतान्तेऽभ्यसूयिन्यो द्वेपिण्यो भव-
न्ति । तत्सर्वमिति । अनुरागो विरागश्चोमयं लक्षणम् । ज्ञापकमित्यर्थः ।
कस्येत्याह भावस्य प्राप्तेरप्राप्तेश्चेति । तत्रानुरागो योषितां सुखप्राप्ति
ज्ञापयति । विरागश्च दुःखाघिगमात्सुखाप्राप्तिम् । विरागस्य विरुद्धका-
र्यत्वात् । अनुरागविरागौ च सुखदुःखहेतुकौ पुरुषेषु दृष्टान्तत्वेन
सिद्धौ । तेऽपि हि पुरुषायिते चिरं व्यापत्य विरतायां योपित्यधिगतसुखा-
श्चिरवेगा अनुरज्यन्ते । तत्क्षणविरतायां च दुःखाधिगमादनवाप्यते
१. 'एवं कृत्वोकम्'.