This page has not been fully proofread.

कामसूत्रम् ।
 
६ आदितोऽध्यायः ]
 
संबाधकस्य स्वभावतः कृमिजुष्टत्वात्तत्र निसर्गसिद्धा कण्डूतिः । तथा
चोक्तम् – 'रक्तनाः कृमयः सूक्ष्मा मृदुमध्योग्रशक्तयः । सरसंझसु क-
ण्डूतिं जनयन्ति यथावलम् ॥' सा त्वस्याः पुरुषेणापनीयते । सातत्या-
दिति अनवरतसाधनव्यापारेणेत्यर्थः । अन्यथा तत्प्रतिबन्धे कण्ड्डा उ-
त्कोप एव स्यात् ।
 
७८
 
अपद्रव्येणापि सा स्वयमपनयतीति चेदाह -
 
-
 
सा पुनराभिमानिकेन सुखेन संसृष्टा रसान्तरं जनयति । त
स्मिन्सुखबुद्धिरस्याः । पुरुषप्रतीतेश्यानभिज्ञत्वात्कथं ते सुखमिति
प्रष्टुमशक्यत्वात् । कथमेतदुपलभ्यत इति चेत्पुरुषो हि रतिमधि-
गम्य स्वेच्छया विरमति, न स्त्रियमपेक्षते, न त्वेवं स्त्रीत्यौदालकिः ॥
 
-
 
सा च कण्डूतिरपनीयमाना शैलाकिकया कर्णकण्डूतिरिव । आभि-
मानिकेनेति आभिमानिकं चुम्बनादिसुखं वक्ष्यति । तेन संसृष्टानुगता ।
रसान्तरमिति सुखान्तरं जनयति । यत्कण्डूत्यपनोदसुखं यच चुम्वनादि-
सुखं तयोः संसृष्टयो रसान्तरत्वात् । तस्मिन्रसान्तरे सुखबुद्धिरस्याः
सुखितासीति । कण्डूतिप्रतीकारमात्रे तु न सुरुबुद्धिः । तस्या अप्राधा-
न्यात् । ततः 'स्पर्शविशेषविषया आभिमानिकसुखानुविद्धा फलवत्यर्थ -
प्रतीतिः प्राधान्यात्' इत्येतद्विशेषलक्षणं तुल्यम् । विशेषो यदत्र न
फलवती । शुक्राभावात् । तच्च रसान्तरमारम्मात्प्रभृति संतानेन सर्वथा
कण्डूत्यपनोदात्प्रवर्तते । पुरुषमुखं तु विसृष्टिभावित्वात् । अत एव तयोः
स्वरूपतः कालतश्च न साहश्यमिति न कालभावाभ्यां नवरतानि । ननु
च पुरुषवद्रति स्त्री नाधिगच्छतीति कथमेतदुपलभ्यते यस्मात्पुरुषप्रीते-
श्वेतोधर्मत्वेनातीन्द्रियायाः प्रत्यक्षेणानभिज्ञत्वात् । कस्य ज्ञातुः पुरुषस्ये-
त्यर्थः । चशब्दात्स्त्रीप्रीतेश्च । यदा स्त्री पुरुषायमाणा स्वव्यापारेणा-
त्मनः प्रीतिं जनयति ततश्च तदसंवेदनादेव खभावात्प्रीतिरस्या इति
कथमुपलभ्यते । पृष्ट्वा ज्ञास्यतीत्यपि नास्तीत्याह — कथमिति । कथं केन
 
१. 'सद्मनि', २. 'चैवाह'. ३. 'अनुविद्धा'. ४. 'शलाकया'. ५. 'अप्रधा-
नत्वात्.