This page has not been fully proofread.

१ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
तद्विपर्ययौ मध्यमचण्डवेगौ भवतस्तथा नायिकापि ॥
 
यथोक्तस्य विपर्ययौ । यस्य संप्रयोगे प्रीतिर्मध्या वीर्य मध्यं क्षतानि
च यः सहते स मध्यभावत्वान्मध्यवेग इत्येको विपर्ययः । संयोगे प्री-
तिरषिका वीर्य महत्क्षतानि चात्यर्थं सहते सोऽधिकभावाच्चण्डवेग इति
द्वितीयः । तथेति पुरुषवत् । यस्य संप्रयोग इत्यादिना मन्दमध्यचण्ड-
वेगा इति नायिकास्तिस्रः ।
 
७७
 
तत्रापि प्रमाणवदेव नवरतानि ॥
 
प्रमाणवदेवेति सहशसंप्रयोगे समरतानि त्रीणि । विपर्यये विपमाणि
 
षट् ।
 
तद्वत्कालतोऽपि शीघ्रमध्यचिरकाला नायकाः ॥
 
यथा भावप्रमाणाभ्यां तथा कालतो नव रतानि । भावोत्पत्तिनिमि-
तस्य कालस्य शीघ्रादिभेदेन त्रैविध्यात् । यदाह — शीघ्रमध्यचिरकाला
इति । शीघ्रेण कालेन रतिर्यस्य । तथा मध्यचिरकालाभ्याम् । नायका
इति नायकश्च नायिका चेति 'पुमान्स्त्रिया' इत्येकशेषनिर्देशः ।
 
तत्र स्त्रियां विवादः ॥
 
नायकनायिकयोः स्त्रीपुंसयोः स्त्रियां विवादः । स्त्रीविषये मतभेद
इत्यर्थः ।
 
तत्र औद्दालकेर्मतम्-
न स्त्री पुरुषवदेव भावमधिगच्छति ॥
 
यादृशं सुखं विसृष्टिप्रभवं पुरुषोऽनुभवति तादृशमेव न स्त्री । शु-
क्राभावात् ।
 
किमर्थं तर्हि पुरुषेण संप्रयुज्यत इत्याह-
सातत्याचस्याः पुरुपेण कण्डूतिरपनुद्यते ॥
 
१. 'तद्विपर्यये'. २. 'भवतः' इति पुस्तकान्तरे नास्ति.
४. 'संयोगे'. ५. 'अत्रापि'. ६. 'भावेऽपि प्रमाण'.
८. 'यथा प्रमाणभावात्'. ९. 'पुरुषवद्भावम् १०. 'तस्याः'.
 
३. 'विपर्ययो'.
७. 'नाविकाच'.