This page has not been fully proofread.

कामसूत्रम् ।
 
६ आदितोऽध्यायः]
 
उच्चतरनीचतरशब्दाकिते अधमे । तत्र यन्त्रस्यातिपीडनादतिशैथिल्याच
स्पर्शसुखस्याभावात् । शेषाणि चत्वारि उच्चरते द्वे नीचरते द्वे
मध्यमानि । श्रेष्ठकैनिष्ठाभावात् । तत्र धनतिपीडनादनतिशैथिल्याञ्च
स्पर्शसुखस्य समत्वात् ।
 
तत्रापि मध्यमानां विशेषमाह-~-
७६
 
साम्येऽप्युच्चा नीचाकाज्ज्यायः । इति प्रमाणतो नवरतानि ॥
ज्येष्ठकनिष्ठाभावाद्वतस्य साम्येऽपि । मध्यस्थेऽपीत्यर्थः । उच्चाङ्कं
नीचाङ्काज्ज्याय इति । उच्चरते हि योषित उत्फुल्लकादिना प्रसार्य जघनं
संविष्टायाः साधनाधिक्यात्कण्डूतिप्रतीकाराधिकलाभः । नीचरते तु सं-
पुटकादिनावहासितजघनाया अपि न तत्प्रतीकारोऽस्ति । यथोक्तम्-
'न त्वल्पसाधनः कामी चिरकृत्योऽपि वा नरः । कण्डूतेरप्रतीकारान्ना-
तिस्त्रीप्रिय उच्यते ॥" इति । उक्तमेवेति ।
 
भावतों रतावस्थापनमाह -
 
यस्य संप्रयोगकाले प्रीतिरुदासीना वीर्यमल्पं क्षतानि च न
सहते स मन्दवेगः ॥
 
भावतो हि कालस्य पश्चाद्भावित्वात्फलरूपत्वाभावात्तस्यापरिच्छेदात् ।
तथा हि हेतुफलमेदादत्र द्विविधो भावः । तत्र कामिताख्यो हेतुः । त-
सिन्सति संप्रयोगात् । रतान्ते च भावः फलम् । तस्मादुभयरूपाद्रुतम-
वस्थाप्यते । स च मूदुर्मेध्यमातिमात्रमेदात्रिविधः । तत्र यस्य संप्रेयोग-
काले प्रीतिरुदासीना संप्रयोगेच्छा मनाग्भवति रतिर्वा वीर्यमल्पं संप्रयोग
मन्दो व्यापारः शुक्रधातुर्वा स्तोकः क्षतानि च नायिकया दन्तनखैः
प्रयुज्यमानानि उपलक्षणत्वात्महरणं च न सहते य इत्यर्थाद्विभक्ति[वि]-
परिणामः । मृदुभावत्वान्मन्दवेगः । मृदुराग इत्यर्थः ।
 
१. 'कनिष्ठत्वाभावात्. २. 'अपि तूच्चाकम्'. ३. 'कामितेच्छा'. ४. 'मध्यमा-
Swaman
 
Part