This page has been fully proofread once and needs a second look.


 
स्य हस्तिन्या सह सदृशः संप्रयोगो र[^१]न्ध्रेन्द्रियसमाप्तिलक्षणः । अ-
ल्पादिभिर्लिङ्गसादृश्यात् । तस्मिन्सति त्रीणि समरतानि । रन्ध्रसाधनयो-
राश्रयाश्रयिमावेन य[^२]त्रसाम्यात् ।
 
विपर्ययेण विष[^३]माणि षट् । विषमेष्वपि पुरुपाधिक्यं चेदनन्तर-
संप्रयोगे द्वे उच्चरते । व्यवहितमेकमुच्चतररतम् । विपर्यये पुनर्द्वे
नीचरते । व्यवहितमेकं नीचतररतं च[^४]। तेषु समानि श्रेष्ठानि ।
तरशब्दाङ्कि द्वे कनिष्ठे । शेषाणि म[^५]ध्यमानि ॥
 

शशस्य वडवया हस्तिन्या च, वृषस्य मृग्या हस्तिन्या च, अश्वस्य
मृग्या वडवया चेति विसदृशः संप्रयोगः । लिङ्गवैषम्यात् । तस्मिन्सति
षड् विषमाणि रतानि । यन्त्रवैषम्यात् । विषमेष्वपि रतेपु <flag>व्यवहाराथै</flag> वि-
शेषसंज्ञामाह — पुरुषाधिक्यं चेति । यदा लिङ्गतः पुरुषाधिक्यं स्त्रिया
न्यूनत्वं तदानन्तरो व्यवहितो वा संप्रयोगः स्यात् । तत्राश्वस्य वडवया
वृषस्य मृग्येति वैलोम्येनान्तरसंप्रयोगः । तस्मिन्समरताद्द्वे उच्चरते ।
साधनस्योच्चतया रन्ध्रमवपीड्य व्याप्रियमाणत्वात् । व्यवहितमिति ।
अश्वस्य मृग्या सह व्यवहितसंप्रयोगः । व[^६]डवया व्यवधानात् । तस्मि-
न्सति उच्चरतादुच्चतररतम् । साधनस्यात्युच्चतया निप्पीडितेन कथं-
चिद्व्यापारात्। विपर्यये द्वे । पुनरिति । पुनःशब्दो विशेषणार्थः ।
स्त्रियाधिक्ये त्वनन्तरसंप्रयोगे शशस्य वडवया वृषस्य हस्तिन्येत्यानु-
लोम्येन समरताद्द्वे नीचरते । साधनस्य निकृष्टतया रन्ध्रे सम्यगनवपूर्य
व्यवहारात् । व्यवहिते वडवयान्तरिते प्रयोगे शशस्य हस्तिन्या सहेति
नीचरतान्नीचतररतम् । तत्रानवपूर्यैव व्यवहारात् । एषामुत्तमादीन्याह-
तेष्विति । नवसु रतेषु षड्भ्यो विषमरतेभ्यः समानि श्रेष्ठानि प्र[^८]शस्तानि ।
तत्र यन्त्रसाम्यादुभयोः परस्परसुखातिशयात् । तर शब्दा ङ्किते कनिष्ठे
 
[^१] 'द्वीन्द्रियसमाप्ति'; 'इन्द्रियसमाप्ति'. [^२] 'यत्र'; 'तत्र'. '[^३]विषमरताने.
[^४] 'च' इति पुस्तकान्तरे नास्ति [^५] 'मध्यमानि शेषाणि'. [^६] 'धडवाव्यव.
धानात् '. [^७] 'व्यापाराविषये. [^८] प्रशस्थानि.