This page has been fully proofread once and needs a second look.

१ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
स्य हस्तिन्या सह सदृशः संप्रयोगो रन्ध्रेन्द्रियसमाप्तिलक्षणः । अ-
ल्पादिभिर्लिङ्गसादृश्यात् । तस्मिन्सति त्रीणि समरतानि । रन्ध्रसाधनयो-
राश्रयाश्रयिमावेन यंत्रसाम्यात् ।
 
विपर्ययेण विषमाणि पट् । विषमेष्वपि पुरुपाधिक्यं चेदनन्तर-
संप्रयोगे द्वे उच्चरते । व्यवहितमेकमुच्चतररतम् । विपर्यये पुनर्हे
नीचरते । व्यवहितमेकं नीचतररतं चें। तेषु समानि श्रेष्ठानि ।
तरशब्दाकिते द्वे कनिष्ठे । शेषाणि मध्यमानि ॥
 
d
 
शशस्य वडवया हस्तिन्या च, वृषस्य मृग्या हस्तिन्या च, अश्वस्य
मृग्या वडवया चेति विसदृशः संप्रयोगः । लिङ्गवैषम्यात् । तस्मिन्सति
षड् विषमाणि रतानि । यन्त्रवैषम्यात् । विषमेष्वपि रतेपु व्यवहाराथै वि-
शेषसंज्ञामाह — पुरुषाधिक्यं चेति । यदा लिङ्गतः पुरुषाधिक्यं स्त्रिया
न्यूनत्वं तदानन्तरो व्यवहितो वा संप्रयोगः स्यात् । तत्राश्वस्य वडवया
वृषस्य मृग्येति वैलोम्येनान्तरसंप्रयोगः । तस्मिन्समरताद्दू उच्चरते ।
साधनस्योच्चतया रन्ध्रमवपीड्य व्याप्रियमाणत्वात् । व्यवहितमिति ।
अवस्य मृग्या सह व्यवहितसंप्रयोगः । बैंडवया व्यवधानात् । तस्मि-
'न्सति उच्चरतादुच्चतररतम् । साधनस्यात्युच्चतया निप्पीडितेन कथं-
चियापारात् । विपर्यये द्वे । पुनरिति । पुनःशब्दो विशेषणार्थः ।
स्त्रियाधिक्ये त्वनन्तरसंप्रयोगे शशस्य वडवया वृषस्य हस्तिन्येत्यानु-
लोम्येन समरताङ्के नीचरते । साधनस्य निकृष्टतया रन्ध्रे सम्यगनवपूर्य
व्यवहारात् । व्यवहिते वडवयान्तरिते प्रयोगे शशस्य हस्तिन्या सहेति
नीचरतान्नीचतररतम् । तत्रानवपूर्यैव व्यवहारात् । एषामुत्तमादीन्याह-
तेविति । नवसु रतेषु षड्भ्यो विषमरतेभ्यः समानि श्रेष्ठानि प्रशस्तानि ।
तत्र यन्त्रसाम्यादुभयोः परस्परसुखातिशयात् । तरशव्दाकिते कनिष्ठे
 
[^.] 'द्वीन्द्रियसमाप्ति'; 'इन्द्रियसमाप्ति'. [^] 'यत्र'; 'तत्र'. 'यत्र'; 'तत्र'. [^. ']विषमरताने.
[^.] 'च' इति पुस्तकान्तरे नास्ति [^.] 'मध्यमानि शेषाणि'. [^.] 'धडवाव्यव.
धानात् '. [^.] 'व्यापाराविषये. [^] प्रशस्थानि. प्रशस्थानि.