This page has not been fully proofread.

७४
 
सांप्रयोगिक
 
कामसूत्रम् । ६ आदितोऽध्यायः]
नाम द्वितीयमधिकरणम् ।
 
प्रथमोऽध्यायः ।
 
स्त्रियं साधयत इत्युक्तं स्त्रीसाधनं चावापः स चाविज्ञातशास्त्रस्य न
युज्यत इत्यावापात्प्राक्तनं सांप्रयोगिकमुच्यते । तत्रापि संप्रेयोगो रतं
तस्मिन्प्रमाणादिभिर्ज्ञातखरूपे यथायथमालिङ्गनादयः प्रयुज्यमाना रैत्यर्था
इति प्रमाणकालभावेभ्यो रतावस्थापनमुच्यते । हेतौ पञ्चमी । प्रमा-
णादिना तस्य व्यवस्थापनमित्यर्थः । तत्र लिंङ्गसंयोगाद्भावकाळाविति ।
ताभ्यामपि प्राक्प्रमाणतस्तावद्रतावस्थापनमाह -
 
शशो वृषोऽश्व इति लिङ्गतो नायकविशेषाः । नायिका पुनर्मू-
गी वडवा हस्तिनी चेति ॥
 

 
लिङ्गत इति । लिङ्गयन्ते स्त्रीत्वादयोऽनेनेति लिङ्गम् । लोकप्रतीत्या
लिङ्गं मेहनमुच्यते । तत्र पौसमुन्नतं प्रमाणं स्त्रीणां निमं प्रमाणं च
शास्त्रव्यवहारयोः । अल्पापसाच्छश इव शशः । तथा समाद्रुषः ।
महतोऽश्वः । इति नायकमेदाः । नायिका पुनरिति । पुनःशब्दो विशे-
षणार्थः । लिङ्गस्य भिन्नत्वात्संज्ञामेदः प्रयुज्यत इति पूर्वाचार्यैर्मृग्यादिभि-
रुपमिताः, न शशादिभिः । तथा चाहुर्लक्षणम् –'षण्नवद्वादशेत्येवमा-
यामेन यथाक्रमम् । शशादिभेदमिन्नानां त्रिधा साधनसंस्थितिः ॥
परिणाहेन तुल्यं स्यादायामस्य प्रमाणतः । नियतं नेति केचित्तु परिणाहं
प्रचक्षते ॥ स्त्रीणां संसारमार्गोऽपि तद्वदेव प्रभिद्यते । आयामपरिणाहा-
भ्यां मृग्यादीनां शशादिवत् ॥" इति ।
 
तत्र सहशसंप्रयोगे समरतानि त्रीणि ॥
 
तत्रेति नायकनायिकयोर्भेदे । सहशो विसदृशो वा संप्रयोगः स्या-
दित्याह—–—सहशसंप्रयोग इति । शशस्य मृग्या, वृषस्य वडवया, अश्व-
१. 'आयामः'. २. 'संप्रयोगे रतें'; 'संप्रयोगेतरे'. ३. 'इत्यर्थ:'. ४. 'प्रमा-
णकालभावेभ्यो रतावस्थापनम्' इत्यस्याध्यायस्य विषयः ५. 'पुंसाम्'. ६. 'उपयुज्यते'.
'तुल्या'. ८. 'मार्गेऽपि,