This page has not been fully proofread.

i
 

 

 
F
 
1
 
५ अध्यायः]
 
१ साधारणमधिकरणम् ।
 
पटुता प्रज्ञानुबद्धया वाचा वक्तुं कुशलता । धार्च प्रागल्भ्यमिति ।
इङ्गितमन्यथा वृत्तिः, आकारो वदननयनादिगतविकारः, तज्जतया तदनु-
रूपमनुतिष्ठति । प्रतारणकालज्ञता कालेऽस्मिन्प्रोत्साहयितुं शक्यत इति ।
विषयबुद्धित्वमिति । संशयेषु विषह्या विमर्शक्षमा बुद्धिर्यस्येति विगृह्य
भावप्रत्ययेन योज्यः । लघ्वी प्रतिपत्तिः सोपाया चेति दूतगुणा इति ।
कार्य विमृश्य तदेवोपायपूर्वकमनुष्ठानं न कार्यातिपातनम् ।
इदानीमधिकरणार्थानुष्ठाने फलं प्रयोजनं चाह -
भवति चात्र श्लोकः
 
आत्मवान्मित्रवान्युक्तो भावज्ञो देशकालवित् ।
अलभ्यामप्ययत्नेन स्त्रियं संसाधयेन्नरः ॥
 
1
 
इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे
नायकसहायदूतीकर्मविमर्शः पश्चमोऽध्यायः ।
 
आत्मवानिति । तत्र त्रिवर्गप्रतिपत्त्या समुद्देशेन चात्मन्याहितगुणत्वा-
दात्मवान् । सहायविमर्शेन मित्रवान् । युक्त इति नागरकवृत्तानुष्ठानेन
युक्तः स्वकर्मनिष्ठः । भावज्ञो नायकनायिकाविमर्शेन तत्स्वरूपज्ञ इत्यर्थः ।
दूतकर्मचित्तपैरिमर्शनेनेति फलम् । अलभ्यामप्ययत्नेन स्त्रियं विपरिमर्शितां
साघयत इति फलप्रयोजनम् । एवंभूतस्य हि स्त्रीसाधनयोग्यत्वादिति ।
नायकसहायद्वतीविपरिमर्शः पञ्चमं प्रकरणं पञ्चमश्चाध्यायः ॥
 
इति श्रीवात्स्यायनीयकामसूत्रटीकार्या जयमङ्गलाभिधानायां विदग्धाद्मनाविरह-
कातरेण गुरुदत्तेन्द्रपादाभिघानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां
साधारणे प्रथमेऽधिकरणे नायकसहाय दूतीकर्मविमर्शः पञ्चमोऽध्यायः ।
समाप्तं चेदं साधारणं प्रथममधिकरणम् ।
 
नेति' पा०.
 
१. 'प्रतारण कालज्ञता' पा०. २. 'भवन्ति चात्र श्लोकाः' पा०.
४. 'नायकसहाय-' इत्यादि पुस्तकान्तरे नास्त्रि.
का० १०
 
३. परिमरों-
-