This page has not been fully proofread.

७२
 
कामसूत्रम् ।
 
५ आदितोऽध्यायः ]
 
न त्यजति । अलोमशीलं न तृष्णया प्रवर्तते । अपरिहार्य न परेण ह्रियते,
अनुरक्तत्वात् । अमन्त्रविस्रावि गूढमन्त्रम् । मित्रसंपत्, मित्रसंबन्धात् ।
मित्रगुणा घर्मिद्वारणोक्ता जातितो विमृश्यन्ते -
 
रजकनापितमालाकारगान्धिकसौरिकैभिक्षुकगोपालकताम्बूलि-
कसौवणिकपीठमर्दविटविदूषकादयो मित्राणि । तद्योषिन्मिन्त्राथ
नागरकाः स्युरिति वात्स्यायनः ॥
 
रजकादयो नायकं स्वकर्ममिरुपकुर्वन्तः परभवनं च विशन्ति । तत्र
गान्धिको गन्धद्रव्यस्य विक्रेता । गन्धः पण्यमस्येति । तथा सौरिकः शौ-
ण्डिकः । भिक्षुको भिक्षणशीलः । पश्चात्कुत्सायां कः । तद्योषिन्मित्राश्चेति ।
न तथा पुरुषा यथा योषितः परभवनं विशन्ति विश्वासयन्ति च स्त्रियः ।
दूतस्य यत्कर्म तत्कुर्यादित्याधारतो विमृश्यते-
यदुभयोः साधारणमुभयत्रोदारं विशेषतो नायिकायाः सुवित्र-
व्धं तत्र दूतकर्म ॥
 
यदिति । मित्रमुभयोरिति, नायकस्य नायिकायाश्च मैथ्या वर्तमानत्वा-
त्साघारणं यथोक्तमभिधत्ते । उभयत्रोदारं आत्मभूतकार्यकार्यात् (?) ।
. विशेषत इति । नायिकायाः सुष्ठु विस्रव्धं विश्वस्तम् । तस्याः साध्यमा-
नत्वात् । तत्र मित्रे दूतकर्म दूतक्रिया । सिद्धिहेतुत्वात्, नान्यत्रेति ।
तत्रापि यदि दूतस्य गुणाः स्युरंतो गुणतो विमृश्यते-
पटुता धार्ष्वमिङ्गिताकारज्ञता प्रतारणकालज्ञता विषह्यबुद्धित्वं
लघ्वी प्रतिपत्तिः सोपाया चेति दूतगुणाः ॥
 
१. 'परैरपहियतें' पा●● २. 'मित्रसंबन्धात्' इति पुस्तकान्तरे नास्ति. ३. सौ-
निक';
'शौण्डिक' पा०. ४. 'गोपालकताम्बूलिकसावर्णिक इति पुस्तकान्तरे
नास्ति. क्वचिच्च मालाकारादीनां पौर्वापर्यम्. ५. 'चारायण: ' पा०. ६. 'यदति
मित्रमुभयो:'; 'यन्मित्रमुमयोः' पा०. ७. 'उदाहारम्'; 'उदाहरणम्' पा०.
८. 'विस्रव्धमिति मित्रसंपत्' पा०. ९. 'उभयत्रोदाहरणमाप्तभूत-' पा०. १०. 'अतो'
इति पुस्तकान्तरे नास्ति ११. 'धृष्टत्वमिङ्गिताकारज्ञानमनाकुलत्व परमर्मज्ञता प्रतारण-
त्व कालज्ञान देशज्ञानं कार्येषु विपयवुद्धित्वम्', 'धृष्टतेङ्गिताकारजता कालज्ञता प्रमाणता
प्रतारणकार्येषु च विषयबुद्धित्वम्'; 'कालज्ञतानाकुलत्वं परममंज्ञता देशकालज्ञान प्रता-
रणकार्येषु चाविषयवर्तित्वम्' पा०.