This page has not been fully proofread.

५ अध्यायः]
 
१ साधारणमधिकरणम् ।
 
त्रियस्य क्रियावत्त्वात् राज्ञश्चतुराश्रमगुरुत्वात्, दाराः खण्डितशीला
अपि दृष्टादृष्टविरोधादगम्याः ।
 
सहायविमर्शस्त्रिधा - स्नेहतो गुणतो जातितश्च । तत्राद्यमधिकृत्याह-
सहपांक्रीडितमुपकारसंबद्धं समानशीलव्यसनं सहाध्यायिनं
यश्चास्य मर्माणि रहस्यानि च विद्यात्, यस्य चायं विद्याद्वा धात्र-
पत्य सहसंवृद्धं मित्रम् ॥
 
मिति स्त्रितीति मित्रं नवप्रकारम् । तत्र सहपांसुक्रीडितमेकत्रा-
नुभूतबाल्यत्वात्निह्यति । उपकारसंबद्धमर्थेन जीवितरक्षया चोपकृतत्वा-
न्मैच्या वर्तते । यच्चास्य नायकस्य मैर्माण्यकार्याणि यच्च रहसि भवानि
विद्यात्तदुभयं मर्मज्ञं रहस्यधरं च नायकमँतीतेरास्पदत्वात्प्रतिनिाति ।
यस्य चेति । यस्य नायको मर्माणि रहस्यानि च विद्यात्तदुभयं तस्मिन्स -
मानितस्नेहत्वात्प्रीत्या वर्तते । सहसंवृद्धं धात्रीकोडे नायकेन सह स्तन्य-
पानादिना संवृद्धं धात्रपत्यं सहपांसुक्रीडितत्वेऽप्यत्यये ख्रिातीति प्रक-
र्षायें वचनम् । यदेकस्मिन्मामे वा सह संवृद्धं तत्सहपांसुक्रीडितं द्रष्ट-
व्यम् । इति नवधा मित्रम् ।
 
गुणतो विमर्शमाह -
 
पितृपैतामहम विसंवादकमदृष्टवैकृतं वश्यं ध्रुवमलोभशीलमपरि-
हार्यममन्त्रविस्रावीति मित्रसंपत् ॥
 
पितृपैतामहम् । पितामहादागतं पैतामहम् । पितुः पैतामहम् । नाय -
कस्य तु प्रपितामहम् । यथानयोमैत्री तेथा पित्रोः पितामहयोश्वासी-
दिति । अविसंवादकं यथादृष्टश्रुताधिकारिणम् । अदृष्टवैकृतं तदात्म्य-
ककार्यस्यादिमध्यावसानेष्वदृष्टव्यभिचारम् । वश्यं यथोक्तकारिणम् । ध्रुवं
 
१. 'विरोधित्वात्' पा०. २. 'रहस्यानि मर्माणि च' पा०. ३. 'विद्याद्वा' इति
पुस्तकान्तरे नास्ति. ४. 'मित्रम्' इति पुस्तकान्तरे नास्त्रि. ५. 'मियति'; 'मित्रति'
पा०. ६. 'मर्मकर्माणि'; 'कर्माणि' पा०.
८. 'अमन्त्रावति'
 
'प्रीतेः' पा०.
 
पा.
 
९. 'तद्वत्' पा०. १०. 'तदात्मक' पा०.
 
1
 
1