This page has not been fully proofread.

५ अध्यायः]
 
१ साधारणमधिकरणम् ।
 
नायकविमर्शमाह -
 
एक एव तु सार्वलौकिको नायकः । प्रच्छन्नस्तुं द्वितीयः । वि-
शेषालाभात् । उत्तमाघममध्यमतां तु गुणागुणतो विद्यात् । त
स्तुभयोरॅपि गुणागुणान्वैशिके वक्ष्यामः ॥
 

 
एक एवेति । नायिकावद्भेदाभावादेक एव सार्वलौकिको नायकः क-
न्यापुनर्भुवेश्यास प्रवर्तमानः सर्वलोकविदितः । स एव परपरिगृहीतासु सुख-
व्यतिरेकेण कार्यविशेषलाभाद्गुप्त्या च प्रवर्तमानः प्रच्छन्नो द्वितीयः ।
गुणद्वारेण स त्रिविध इत्याह — गुणागुण इति । गुणसमुदायादुत्तमः ।
गुणपादद्वयाभावान्मध्यमः । पादत्रयाभावादधमः । सर्वगुणाभावादनायक
इति । उभयोरिति । नायकस्य नायिकायाश्च ।
 
-
 
कन्यादीनां विशेषानभिधानात्पुनरगम्यतया विमर्शमाह -
अगम्यास्त्वैवैताः – कुष्ठिन्युन्मत्ता पतिता भिन्नरहस्या प्रकाश-
मार्थिनी गतप्राययौवनातिश्वेतातिकृष्णा दुर्गन्धा संवन्धिनी सखी
प्रव्रजिता संवन्धिसखिश्रोत्रियराजदाराच ॥
 
नायकस्य तु कन्यादिविधावगम्यत्वं सूचयति । तुशब्दो विशेषणार्थः ।
एवकारो नियमार्थः । सत्स्वपि कार्येप्वेता अगम्या इत्यर्थः । कुष्ठिनीति
जुगुप्सितव्याध्युपलक्षणार्थम् । उन्मत्ता यत्किंचनकारिणी न सुखावहा ।
पतिता स्वजात्यपेक्षया महापातकाचरणात् । तत्संपर्कात्पतितः स्यात् ।
भिन्नरहस्या लोके रहस्यं प्रकाशयन्ती नायकं लज्जयति । प्रकाशप्रार्थिनी
प्रकटं नायकमभिलषन्ती त्रपयत्यनर्थ च करोति । गतप्राययौवना तत्से-
वायामायुस्तेजश्च हीयते । अतिश्वेता अतिकृष्णा चाप्रशस्ता । कन्या-
पुनर्मूश्च ज्ञेया निन्द्यत्वादन्या अपि यथासंभवं योज्या । दुर्गन्धा गुझे
वक्त्रे च । दुष्टगन्धा संयोगे वैमुख्यं जनयति । संबन्धिनी भ्रातुरपत्यस्य
 
१. 'च' पा०. २. 'च' पा०. ३. 'एवैषां विद्यात्' पा०. ४. 'तां-
स्तूभयो.' इत्यादि पुस्तकान्तरे नास्ति ५. 'अपि इति पुस्तकान्तरे नास्त्रि. ६. 'स्व-
व्यतिरेकेण' पा०. ७. 'प्रकाशार्थिनी' पा०. ८. 'ससर्गात्' पा०. ९. 'निज-
त्वात्' पा०.
 
together o