2023-02-19 13:58:55 by ambuda-bot
This page has not been fully proofread.
कामसूत्रम् ।
५ आदितोऽध्यायः]
रित्यर्थः । एतैरिति यथोक्तैः । विधवा पञ्चमीति संबन्धः । प्राग्जीवद्धर्तृ-
केतिविशेषः । तत्रापि पत्युरभावात् । महामात्रस्य राज्ञो वा संबन्धः ।
संबद्धा असंबद्धा वा । तत्रैकदेशचारिणी तदीयकुटुम्बैकदेशसंबद्धा । अ
न्या वा काचिदन्यजनसंबद्धा कार्यसंपादिनी यज्जनसंबद्धा तत्कार्येषु व्याप्रि-
यमाणा । आसु तिसृषु विधवा स्वैरिणी पुनर्भू वेति विषयं विमृश्य पतिस्थाने
राजानं महामात्रं अन्यं वा नियोज्य तत्प्रतिबद्धानि ( नायिकाप्रतिबद्धा-
नि) कारणानि योजयेत् । सैवेति विघवा प्रत्रजिता राजमहामात्रयोर-
न्यस्य वा संवद्धा तत्कुलान्युपगच्छन्तीति नायिकानुवृत्त्या गृहधर्मत्वा -
क्षेत्रापि पूर्ववत्कारणानि योजयेत् । गणिकाया दुहिता अनन्यपूर्वा पुरु-
षेणासंसृष्टा । परिचारिका वा चन्द्रापीडस्येव पत्रलेखा । तत्र पूर्वा वेश्या-
कन्यामासा वक्ष्यमाणपाणिग्रहणमेदाद्भिद्यते । द्वितीया कन्याप्यगृहीत-
पाणिर्नायकं परिचरन्तीति विशिष्यते । उत्क्रान्तबालभावा कुलयुवतिरिति ।
कुलकन्यैवोढा सती कालेनापक्रान्तबालमावा समुपारूढयौवना कुलयुवतिः ।
उपचारान्यत्वादिति । उपचारभेदात्सा हि न कन्यावर्दुपचर्यते । कन्या-
यामुपचारा अपरिस्फुटा विकल्पेन च प्रयुज्यन्ते । प्राप्तयौवनायास्तु परि-
स्फुटाः समुच्चयेन चेति । कार्यान्तराभावादिति । कन्यादिषु चतसृषु यत्का -
र्यमुक्तं तव्यतिरिक्तानां विधवादीनां कार्याभावात्पूर्वास्खेवोपलक्षणमुपदर्श-
नम् । तत्रैव यथासंभवमुपलक्षयेदित्यर्थः । तत्र विधवा प्रव्रजितान्यकार-
णवशात्परपरिग्रहे द्रष्टव्या । गणिकादुहिता परिचारिका च सुखकार्य-
त्वाद्वेश्यायाम् । कुलयुवतिः पुत्रकलत्रफलत्वात्कन्यायाम् । उपचारभे-
दात्तद्भेदे नायिकातिसंप्रयोगात् । दृश्यते हि देशकालप्रकृतिसात्म्यभेदा-
देकस्यामुपचारवहुत्वम् । तृतीया प्रकृतिर्नपुंसकः स्त्रीत्वपुंस्त्वाभावाद्भिद्यते ।
तत्र चोपरिष्टकर्मणा सुखलाभात् । न रूपव्यापारभेदात्पञ्चमीत्येके ।
अन्यथा सुखकार्यत्वाद्वेश्याविशेष एंव ।
S
१. 'प्रतिवद्धा वा' पा०. २ 'संवाहिका' पा०.
४. 'नायिकानिवृत्तगृह - पा०. ५. 'अत्रापि' पा०.
७. 'विधवादीनाम्' इति पुस्तकान्तरे नास्ति.
नास्ति ९. 'एवेत्यर्थः' पा०.
पा०.
३. 'आशु सिद्धयति' पा●●
६ 'उपचरेत्'; 'उपाचरयेत्'
८. 'कलत्र' इति पुस्तकान्तरे