This page has not been fully proofread.

९ अध्यायः]
 
१ साधारणमधिकरणम् ।
 
६७
 
यामन्या कामयिष्ये सास्या वैशगा । तामनेन संक्रमेणाधिग-
मिष्यामि । कन्यामलभ्यां वात्माघीनामर्थरूपवर्ती मैथि संक्राम-
यिष्यति । ममामित्रो वास्याः पत्या सहकीभावमुपगतस्तमनया
रसेन योजयिष्यामीत्येवमादिभिः कारणैः परस्त्रियमपि मकुर्वीत ॥
 
यामन्यामिति । प्रस्तुतनायिकया अन्यां यां प्रकृष्टकारणवशात्काम-
यिष्ये सास्या इति प्रस्तुतनायिकाया वशगा यथोक्तकारिणी । तामप्रस्तु-
तामुपायान्तराभावादनया संक्रमायमाणया प्राप्स्यामि । अलम्या मया
निर्धनत्वादियोगात् । आत्माघीनां तदायत्ताम् । अर्थरूपवत त्रिवर्गहेतुं
मयि संक्रामयिष्यति । कन्यामिति । सा वा संप्रयुज्यमाना उभयं संघटय-
तीति तामेव तावदधिगच्छामि । एवं च कांचित्संप्रयुज्य या स्त्री वस्तु
संघटयतीति । ममाभित्रो वा प्राणहरोऽस्याः पत्या सहकीभावमुपगतः
सहासनशयनपानभोजनादिभिः । प्राक् 'पतिममित्रसंसृष्टम्' इति संश्लेष-
मात्रमुक्तम् । तमनया संसृष्टया रसेन कालान्तरप्राणहारिणा विषेण योज-
यिष्यामि । एवमादिकारणं यदा मन्येतेति प्रवर्तते तदा प्रकुर्वीत । प्रपूर्वः
करोतिरभिगमे वर्तते । आत्मनेपदम् ।
 
इति साहसिक्यं न केवलं रागादेव । इति परपरिग्रहगमनकार-
णानि । एतैरेव कारणैर्महामात्रसंवद्धा राजसंवद्धा वा तत्रैकदेश-
चारिणी काचिदन्या वा कार्यसंपादिनी विधवा पञ्चमीति चारा-
यणः । सैव मत्रजिता पष्ठीति सुवर्णनाभः । गणिकाया दुहिता
परिचारिका वानन्यपूर्वा ससमीति घोटकमुखः । उत्क्रान्तवालभावा
कुलयुवतिरुपचारान्यत्वादष्टमीति गोनदींय: । कार्यान्तराभावादे-
नासामपि पूर्वास्खेवोपलक्षणम् तस्माचतस्र एव नायिका इति
वात्स्यायनः । भिन्नखात्तृतीयामकृतिः पञ्चमीत्येके ।
 
साहसिक्यं न रागेण विषयस्याशुद्धत्वात्प्रकुर्वीत, किं तु कारणे-
१. 'वशगता तां चानेन क्रमेण' पा०. २. 'इय मयि' पा० . ३. 'तक्रमस्था-
नतया'; 'सक्रमसानाय याम्' पा०. ४. 'वस्तुरसम्' पा०. ५. 'राजसबद्धा' इति
पुस्तकान्तरे नास्ति,