This page has not been fully proofread.

६६
 
कामसूत्रम् ।
 
५ आदितोऽध्यायः]
 
नुरब्रवीत् ॥' मयि दृढमभिकामेति । आभिमुख्येन कामयत इत्यमिकामा ।
दृढं मयि जातरागेत्यर्थः । मामनिच्छन्त खतोऽन्यस्माद्वा दोषाद्दोषवि-
षयख्यापनेन मर्मज्ञत्वाल्लोके दूषयिष्यति । राज्यकामुकोऽयमिति येन मे
विनांशः स्यात् । राजापथ्यकारीति ।
 
असद्भूतं वा दोषं श्रद्धेयं दुष्परिहारं मयि क्षेप्यति येन मे वि
 
नाशः स्यात् ॥
 
असद्भूतं वेति । मैया संप्रयुयुक्षुरिति मिथ्यैव दोषमुत्थाप्य श्रद्धेयं कृत
कमदनलेखेन जातप्रत्ययम् । एव च दुष्परिहारं मयि क्षेप्स्यति समारो-
पंयिष्यतिं येन मे विनाशः स्यात् । पारदारिक इति ।
 
आयतिमन्तं वा वश्यं पतिं मत्तो विभिद्य द्विषतः संग्राहयिष्यति ।
आयतिमन्तं प्रभावयुक्तं पतिं वश्यं यथोक्तकारिणं भत्तो विभिद्य
मत्तोऽनिच्छतोऽपि मित्रीभूतं विश्लेष्य द्विषतः संग्राहयिष्यत्यसच्छ-
त्रून्मैत्रीपूर्वं स्वीकारयिष्यति । ततश्च संगृहीतप्रभावा मां हनिष्यति ।
 
स्वयं वा तैः सह संसृज्येत । मदवरोधानां वा दूषयिता पति-
रस्यास्तदस्याहमपि दारानेव दूषयन्प्रतिकरिष्यामि ॥
 
स्वयं वा तैः सह संसृज्येत समर्थैः अस्मदुपघातार्थम् । मदवरोधानां
वेति । अस्मत्परिगृहीतानां दाराणामभिगमनेन दूषयिता । ततश्चानुरूप-
प्रत्यपकारेण शत्रोरानृण्यं गन्तव्यमिति तदस्यापि दारानेवाभिगमनेन
दूषयन्प्रतिकरिष्यामि ।
 
राजनियोगाच्चांन्तर्वर्तिनं शत्रुं वास्य निर्हनिष्यामि ॥
राजनियोगादिति । राज्ञाहमभ्यन्तरं निरूपयितुं नियुक्तस्तमुपायान्त-
'राभावादस्याँविश्वासया संसृज्य निष्क्रामयिष्यामि । गुरुत्वात्खामिकार्यस्य ।
 
१. 'मिथ:' पा०. २. 'ग्राहयिष्यति' पा०. ३. 'आर्यतमं मन्त्रप्रभावयुक्तम्'
पा०. ४. 'पतिरस्याः' इति पुस्तकान्तरे नास्ति. ५. 'तदहमपि' पा०.
नियोगाच्चानुयोगादिति' इति पाठः सटीकपुस्तकेयु प्रायो दृश्यते मूलपुस्तके
'शत्रुम्' इत्यस्य स्थाने 'चारम्' इति वर्तते. ७. 'विश्वस्तया' पा०.