This page has not been fully proofread.

५ अध्याय:]
 
१ साधारणमधिकरणम् ।
 
६५
 
तया वा मित्रीकृतेन मित्रकार्यममित्रप्रतीघातमन्यद्वा दुष्पतिपा-
दकं कार्यं साधयिष्यामि ॥
 
तया वेति । प्रभवन्त्या मया संसृष्टया मित्रीकृतेन तस्याः पत्या मि-
त्रकायै तत्साध्यम् । मित्रकायें हि प्राणानपि त्यजेन्नरकमपि विशेत् । अ-
1 मित्रप्रतीघातं स्वशरीरत्राणार्थम् । अन्यद्वा खकीयं दुष्प्रतिपादकं दुःसा-
धकं साधयिष्यामि ।
 
संसृष्टो वानया हत्वास्याः पतिमस्मद्भाव्यं तदैश्वर्यमेवमधिगमि-
ष्यामि ॥
 
संसृष्टो वानयेति । संप्रयोगादाहितस्नेहया कृतसंधिकां हत्वास्याः
पतिं द्विषन्तं तूष्णीं दण्डेन असद्भाव्यमैश्वर्यमपि तदा भाव्यम् । केव-
लमस्मत्कुलं हत्वापि मतोऽपि वा हठादाच्छिद्यानेन प्रसह्य भुज्यते तत्प्रा-
प्स्यामि । ततोऽस्य आततायित्वाद्वयापादनमपि नाधर्माय ।
 
निरत्ययं वास्या गमनमर्थानुवद्धम् । अहं च निःसारत्वात्क्षीण -
प्युपायः । सोऽहमनेनोपायेन तद्धनमतिमहदकृच्छ्रादधिगमिष्यामि।
मर्मज्ञा वा मयि दृढमॅभिकामा सा मामनिच्छन्तं दोषविख्यापनेन
दूषयिष्यति ॥
 
निरत्ययं रक्षाद्यभावान्निर्दोषम् । अन्यत्राप्येतद्द्रष्टव्यम् । अर्थानुव-
द्धम् । आढ्यत्वादस्याः । अहं च निःसारत्वान्निद्रव्यत्वात्क्षीणवृत्त्यु-
पाय इति । वृत्तिर्जीविका तदुपाय: कृष्यादिः स क्षीणो यस्येति । सो-
ऽहं कुटुम्बमरणासमर्थोऽनेनोपायेनाभिगमनलक्षणेन तद्धनमतिमहद्धर्मादि-
साधनमधिगमिष्यामि । खल्पाधिगमे तु नाधिगच्छेदिति मन्यते । अकृ
च्छ्रादिति तैया नेहाद्दीयमानम् । अन्यथा दृष्टादृष्टसाधनं न स्यात् ।
तस्मात्कुटुम्बकार्थमकार्यमपि कार्य स्यात् । तथा चोक्तम् – 'माता वृद्धा
पिता चैव साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या म-
-
 
१. 'अस्सदाभाव्यम्' पा०. २. 'द्विषन्मिन्नत्वाविषन्तम्' पा०. ३. 'असदाभा-
व्यम्' पा०. ४. 'वा गमनमस्या अर्थानुवन्धि पा०. ५. 'अतिकामा' पा०.
६. 'मया' पा०.
 
का० ९
 
1