This page has not been fully proofread.

"
 
६४
 
कामसूत्रम् ।
 
: ५ आदितोऽध्यायः]
 
सापि परिफल्गुदोषा तंत्राभिगमनं न कस्यापि धर्मोपघाते स्यादित्याह-
गमनमपि कारणवशात्क्रियमाणं न धर्मपीडां करिष्यति । अधर्मस्याभावात् ।
पुनर्भूरियं कथमित्याह-
अन्यपूर्वावरुद्धा नात्र शङ्कास्ति ॥
 
अन्यः पूर्वो यस्याः सेयं क्षतयोनिरनेनावरुद्धा संगृहीता नात्र शङ्का-
स्ति । गमने नाधर्मः स्यादिति । अनुत्तमवर्णिनीत्वात् । तत्र यद्यपि धर्मस्य
पीडा नास्ति आशङ्का च, तथापि सुखं निमित्तीकृत्य प्रवर्तेत । निषिद्ध-
त्वात् । किंतु वक्ष्यमाणमेव कारणं तेन विषयविशुद्धयर्थमिदमादावुक्तम् ।
यथोक्तम् –'विशुद्धिं विषयस्यादौ कारणानि च तत्त्वतः । प्रसमीक्ष्य प्र
वर्तेत परस्त्रीपु न भावतः ॥' इति ।
 
कारणान्याह-
पैति वा महान्तमीश्वरमस्मदमित्रसंसृष्टमियमवगृह्य प्रभुत्वेन च-
रति । सा मया संसृष्टा स्नेहादेनं व्यावर्तयिष्यति ॥
 
पति वा महान्तमिति । अस्मदमित्रेण जातसख्यं पतिं तस्य शत्रो-
महात्त्वादैश्वर्यापकारसामर्थ्य वेत्युमयमधिकृतं वेदितव्यम् (!) । अवगृथ
प्रभुत्वेन चरति अवष्टभ्य स्वामिनं व्यवहरति । सा मया संसृष्टा स्नेहा-
त्संयोगात्प्रवृद्धस्नेहात्तस्मादेनं व्यावर्तयिष्यति । अस्मदमित्रादपकर्तुकामा-
त्पातं प्रभवन्ती निवर्तयिष्यति ततश्च विशिष्टर्मांवो मे भविष्यति । अ-
न्यथा महान्तमीश्वरमाश्रितो मामेवाकृतपुरुषार्थ हनिष्यति ॥
 
विरसं वा मयि शक्तमपकर्तुकामं च प्रकृतिमापादयिष्यति ॥
विरसं वेति । कार्यवशान्मयि विरक्तं पतिं शक्कमप्रतिविधेयमपकर्तु-
कामं कदाहमस्यापकरिष्यामीति बद्धानुशयं प्रकृतिमापादयिष्यति । प्र-
भवन्तीति मया संसृष्टा पूर्वावस्यं स्वभावं नेष्यति ।
 
१. 'तस्य' पा०. २. 'पुनर्भूध्येय मन्यपूर्वा न कापि शङ्कास्ति' पा०.
३. 'यदुक्तम्' पा०. ४. 'शङ्कितव्यं पति वा पा०. ५. 'तस्मादेनम्'
पा० ६. 'अस्मदमित्रेण - वेदितव्यम्' इति पुस्तकान्तरे नास्ति. ७. 'तस्मात् '
८. 'भाव्यो' पा०. ९. 'च' इति पुस्तकान्तरे नास्ति. १०. 'पूर्वाव
यवस्थम्' पा०.
 
पा०.