This page has not been fully proofread.

१ साधारणमधिकरणम् ।
 
पञ्चमोऽध्यायः ।
 
गार्हस्थ्यमधिगम्येति
 
ससहायस्योपक्रमा इति दूतानां संप्रेषणमित्यु -
क्तम् । तत्र को नायकः कया नायिकया गाहर्थ्यमधिगम्य नागरकवृत्तं
वर्तेत, कैश्च सहायैः किं च द्वैतस्य कर्मेति तेषां विमर्शो निरूपणमिति
नायकसहायदूतकर्मविमर्श उच्यते । 'पुमान्सिया' इत्येकशेपनिर्देशान्ना-
यकयोरित्यर्थः । द्वैतकर्मेति दूतीदूतयोरित्यर्थः ।
 
तत्र बहुवक्तव्यत्वात्प्राड्डायिका फलतोऽन्यकारणतश्च विमृश्यते-
कामचतुर्षु वर्णेषु सवर्णतः शास्त्रतबनन्यपूर्वायां प्रयुज्यमानः
पुत्रीयो यशस्यो लौकिकश्च भवति ॥
 
कामश्चतुध्विति । सवर्णत इति येथा ब्राह्मणेन ब्राह्मण्याम् । यथा
च शूद्रेण शूद्रायाम् । शास्त्रत इति शास्त्रोक्तेन वरणादिना विधानेन ।
अनन्यपूर्वायां भार्यात्वेनौधिगतायाम् । प्रयुज्यमानः प्रवर्त्यमानः । पुत्रीय
औरसस्य पुत्रस्य निमित्तम् । 'पुत्राच्छ च' इति छप्रत्ययः । यथोक्तम्-
'स्वक्षेत्रे संस्कृतायां तु सुतमुत्पादयेविजः । तमौरसं विजानीयात्पुत्रं प्राथम-
कल्पिकम् ॥ इति । तत्र स्वक्षेत्रं सवर्णः । यशस्यो यशोनिमित्तम् । 'गो-
यच:-' इत्यादिना यत् । अत्र च यद्यपि कामो न संयोगस्तथापि
स्त्रीपुंसयोर्योोंगे कामशब्द उपचरितः । तत्पूर्वकत्वात्कामस्य । इति भवति
तत्पर्यायः । लौकिकश्च लोके विदितः । तदबाह्य इत्यर्थः ।
 
तद्विपरीत उत्तमवर्णासु परपरिगृहीतासु च । प्रतिषिद्धोऽवर-
वर्णास्वनिरवसितास । वेश्यास पुनर्भूपु च न शिष्टोन प्रतिषिद्धः ।
सुखार्थत्वात् ॥
 
५ अध्यायः]
 
CO
 
१. 'गार्हस्थ्य – नायिकया' इति पुस्तकान्तरे नास्ति. २. 'तत्र कैथ' पा०.
३. 'दूतकस्य' पा०.
४. 'नायकसहायदूतकर्मविमर्शः' इति प्रस्तुताध्यायस्य
विषयकथनम्. ५. दूतकर्मेल्यादि पुस्तकान्तरे नास्ति. ६. 'सवर्णतथ' पा०.
७. 'अनन्यपूर्वायाम्' इति पुस्तकान्तरे नास्ति ८. 'भवति' इति पुस्तकान्तरे
नास्ति. ९. 'यावत्' पा०. १०. 'यावत्' पा०. ११. 'अनधिगतायाम्' पा०.
१२. 'निरवसितासु' पा
 
.
 

 

 
5
 
1
 
.