2023-02-19 13:58:54 by ambuda-bot
This page has not been fully proofread.
& o
कामसूत्रम् । ४ आदितोऽध्यायः]
Bo
ज्ञान् । कौतूहलिकान्कौतुकवतः । प्रोत्साह्य कथमित्याह – वृत्तं वर्णयन्न-
मुष्मिन्नगरे इत्थं गोत्रपुत्राणां नागरकाणां लोकमनोहारि चेष्टितं श्रूयते,
भवतामपि युक्तं वैचक्षण्यानुरूपं जीवितफलं तद्नुकर्तुमिति श्रद्धां च जन-
यन्यात्रामपि तद्दर्शनेन गोष्ठीब्ध प्रवर्तयेत् । तैः सह संगत्या जनमनुरञ्ज-
येत् । संगतिमैत्रीभ्यामित्यर्थः । साहाय्येनानुगृह्णीयात् । यात्रोत्सवादिषु
प्रवर्तमानमुपचारयंश्च परस्परमुॅपचरेत् ।
तत्र चैषां काव्यसमस्याः कलासमस्याश्चेत्युक्तम् । तत्र विशेषमाह -
भवन्ति चात्र श्लोकाः-
नासन्तं संस्कृतेनैव नात्यन्तं देशभाषया ।
कथां गोष्ठीषु कथयंलोके बहुमतो भवेत् ॥
या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी ।
परहिंसात्मिका या च न तामवतरेषः ॥
लोकचित्तानुवर्तिन्या क्रीडामात्रैककार्यया ।
गोष्ठ्या सहचरन्विद्वांडोके सिद्धिं नियच्छति ॥
इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे
नागरकवृत्तं चतुर्थोऽध्यायः ।
नात्यन्तमिति । कश्चिदेव संस्कृतं वेत्ति देशभाषां च । कथां काव्य-
कलाविषयां च चर्चाम् । या गोष्ठीति । यदा स्वयं गोष्ठीं न प्रवर्तयेत्तदा-
न्यप्रवर्तितां यायात् । तत्रापि या लोकविद्विष्टा लोकस्यासंमता । खैर-
विसर्पिणी स्वातन्त्र्येण प्रवृत्ता। निरङ्कुशेत्यर्थः । परहिंसात्मिका परदूषण-
परा । न तत्रावतरेहुधः । तत्र ह्यवतरणमवुघस्य दृश्यते । कया सह च-
रेदित्याह–लोकचित्तेति । लोकचित्तानुरञ्जनं क्रीडा च फलं गोष्ठचाः ।
सिद्धि नियच्छति प्राप्नोति । लोकसिद्धो भवति किं पुनः स्त्रीष्वित्यर्थः ।
खयं गोष्ठीप्रवर्तनेऽप्ययमेव विधिः ।
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धामनाविरह- .
कातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्याया
साधारणे प्रथमेऽधिकरणे नागरकवृत्त चतुर्थोऽध्यायः ।
१. 'मैत्र्या प्राम्यमित्यर्थः' पा०. २. 'उपचरन्तम्' पा०. ३. 'भवन्ति
चात्र श्लोकाः' इति पुस्तकान्तरे नास्ति कचित्तु 'भवन्ति चात्र' इत्येतावदेवास्ति.