This page has not been fully proofread.

४ अध्याय:]
 
१ साधारणमधिकरणम् ।
 
५९
 
एकदेशविद्यस्तु क्रीडनको विश्वास्यश्व विदूषकः । वैहासिको
वा । एते वेश्यानां नागरकाणां च मन्त्रिणः संधिविग्रहनियुक्ताः ॥
यस्तु गीतादीनां प्रदेशज्ञः सोऽविभवो भुक्तविभवो वा शरीरमात्रः
सकलत्रस्तत्रत्य आगन्तुको वा पूर्ववृत्त्यसंभवात् । क्रीडनको विश्वास्यश्च
भवति । वेशे गोष्ठ्यां च विश्वास्यतामुपगम्य परिहासशीलवृत्त्या वर्तत
इत्यर्थः । स च वेश्यां नागरकं वा क्वचित्प्रमाद्यन्तं लब्धप्रणयत्वादपव-
दते इति विदूषकः । क्रीडनकत्वाच्च वेशे गोष्ठ्यां च विविधेन हासेन च-
रतीति वैहासिक इत्युभयनामा । एते नागरकाणां पार्श्ववर्तित्वादुपनागरका
मन्त्रिणः संधिविग्रहनियुक्ता इति सामान्यं वृत्तं संधिविग्रहयोर्ज्ञानं म-
त्रिणः कैर्मणि सांधिविग्रहिकाः । तथाहि —– देशकालकार्यापेक्षया संधि-
विग्रहौ प्रधानगुणौ ज्ञानेनावधार्य तत्कर्मसु प्रवर्तन्त इति ज्ञानकर्मरूपौ
संघिविग्रहौ ।
 
उतैर्भिक्षुक्यः कलाविदग्धा मुण्डा वृपल्यो वृद्धगणिकाच व्या-
ख्याताः ॥
 
तैरित्युभयात्मकैः । भिक्षुकस्य भार्या । मुण्डगुणयुक्ताः । वृपल्यो व-
न्धक्यः । कलाविदग्धा इति सर्वत्र योज्यम् । ता अपि संधिविग्रहयो-
र्ज्ञाने कर्मणि च नियोक्तव्याः । ताश्च संधिविग्रहार्थ कुट्टनाञ्चालनाच
कुट्टन्य इत्युच्यन्ते ।
 
यात्रावशाामवासिनो वृत्तमाह -
 
ग्रामवासी च सेजातान्विचक्षणान्कौतूहलिकान्मोत्साह्य नागर-
कजनस्य वृत्तं वर्णयञ्श्रद्धां च जनयंस्तदेवानुकुर्वीत । गोष्टीच प्र-
वर्तयेत् । संगत्या जनमनुरञ्जयेत् । कर्मसु च साहाय्येन चानुगृह्णी-
यात् । उपकारयेच्च । इति नागरकवृत्तम् ॥
 
ग्रामवासी चेति । सजातान्समानजातीयान् । तत्रापि विचक्षणान्मा-
१. 'वृत्त्यासंभवात्' पा०. २. 'कर्माणि' पा०.
हिन्य.' पा०. ५. 'बहुमतः सजातान्' पा०.
७. 'जनस्यम्' पा०. ८. 'उपकारयेत्' पा०.
 
३. 'एतैः' पा०. ४. 'कु-
६. 'कौतूहलिन.' पा०.
 
}
 
+