2023-02-19 13:58:53 by ambuda-bot
This page has not been fully proofread.
1
कामसूत्रम् ।
४ आदितोऽध्यायः]
ज्यादेशादागतः कलासु विचक्षणस्तदुपदेशेन गोष्ठयां वेशोचिते
च वृत्ते साधयेदात्मानमिति पीठमर्दः ॥
तुशब्दो विशेषणार्थः । यस्तु निष्किचनो यथोक्तं नागरकवृत्तं वर्तितु-
मयोग्यः शरीरमात्रः पुत्रकलत्राद्यमावात् । परिचारकद्वितीयो यथोत्पा-
दितवित्ताभावाद्देशहिण्डनकः । मल्लिका दण्डासनिका शरीरधारणात्पूर्व-
नागरकाचार्यैः संकेतिता । 'मल मल्ल धारणे' इति धातुपाठात् । सा तस्य
पृष्ठत एवासना भ्राम्यते । वृत्तविषयेच्छत्वाच्च जङ्घाघर्षणार्थी फेनकक-
पायाविति । तन्मात्रं परिच्छदो विभवो यस्येति । पीठिकाद्यासनं तु
नार्हति । पूज्याद्देशाच्छास्त्रकलाविदध्युषितात् । तत्रत्य एव देशदिदृक्षया-
गतः । कलासु कुशलः खदेश एव गीतादिचतुःषष्टि पाञ्चालिक चौ-
धीतवान् । तदुपदेशेन कलोपदेशेन । गोष्ठयां नागरकाणाम् । वेशोचिते
वेश्याजनोचिते वृत्ते साधयेदात्मानमिति । आचार्य निष्पादयेदित्यर्थः । स
पीठमर्द उपदेशदानेऽधिकृतत्वान्मल्लिकाख्यं पीठं मैहातीति कृत्वा ।
एतेनाचार्यवृत्तमस्य वृत्तम् ।
भुक्तविभवस्तु गुणवान्सकलत्रो वेशे गोष्ठ्यां च वहुमतस्तदुप-
जीवी च विटः ॥
यस्तु यौवने नागरकवृत्त्या परिमुक्तसर्वस्खोऽप्यनुपरतो विषयेभ्यः ।
सविभवस्तु नागरक एव स्यात् । तत्रत्यो नान्यस्माद्देशादागतः । भुक्त-
विभवस्त्वागन्तुकः पीठमदौश एव । गुणवान्नायकगुणयुक्तः । प्राक्तनस्य
नागरकत्वात् । सकलत्रः सानुबन्धत्वान्न स्वदेशत्यागी । बहुमत इति बहु-
मतं यस्य । विशेषपरिज्ञानात् । तदुपजीवी विटगोष्ठचुपजीवी । वृत्ति-
मन्यामॅनिच्छन्वेश्याजनं नागरकजनं चोपजीवति । तदुपजीवितया तयोः
संदेशं परस्परं विटतीति कथयतीति विटः । 'विट शब्दे' इति धातुपाठात् ।
वक्ष्यति च – 'विटः पुरोगां प्रीतिं कुर्यात्' इति । तेन तदुपजीविवृत्तमेवास्य
वृत्तम् ।
५८.
१. 'वेशे च' पा०. २. 'प्रवृत्ति' पा० ३. 'वाघीतः' पा०. ४. 'मूर्भ
वहतीति' पा०. ५. 'अन्विच्छन्' पा●●