This page has not been fully proofread.

३४ अध्यायः]
 
९ साधारणमधिकरणम् ।
 
५७
 
क्ष्वेडा यस्यां क्रीडायां सा मध्यदेश्यानाम् । यस्याः शृङ्गक्रीडेति प्रसिद्धिः ।
२. पाञ्चालानुयानम् । भिन्नालापचेष्टितैः पाञ्चालक्रीडा । यथा मिथिलायाम् ।
एकशाल्मली । एकमेव महान्तं कुसुमनिर्भरं शाल्मलिवृक्षमाश्रित्य
तत्रत्यकुसुमाभरणानां क्रीडा । यथा वैदर्भाणाम् । कैदम्वयुद्धानि । कदम्ब-
कुसुमैः प्रहरणभूतैर्द्विधा बलं विभज्य युद्धानि । कदम्बग्रहणं कुसुमसुकु-
मारप्रहरणसूचनार्थम् । यष्टीष्टकादियुक्तानि तु न कार्याणि । यथा पौ-
ण्ड्राणां युद्धं क्वचित्कचिद्दृश्यते । तास्ताश्चेति या या लोके प्रवृत्ति-
पूर्वाः । माहिमान्य इति महिमा महत्त्वं तद्विद्यते यासामिति । 'संज्ञायां
मन्माभ्याम्' इतीनिप्रत्ययः । सर्वदेशव्यापिन्य इत्यर्थः । देशे भवा देश्याः ।
प्रादेशिन्य इत्यर्थः । जनेभ्यो विशिष्टमिति घटादयो नागरकाणामिति ।
समस्यास्तु साधारणाः । तत्र जना नागरकाश्च क्रीडन्ति । तस्मात्तेभ्यो
विशिष्टमाचरेयुः । नागरत्वद्योतनार्थम् । संभूयक्रीडा इति । आसु नागर-
: काणां द्रव्यमुपहार्य संभूय क्रीडनात् ।
 
ऍकचारिणश्च विभवसामर्थ्यागणिकाया नायिकायाथ सखी-
भिर्नागरकैश्च सह चरितमेतेर्न व्याख्यातम् ॥
 
नागरकाणामभावाददृष्टदोषाद्वा यः कश्चिदेक एव चरति तस्य ख-
विभवानुरूपेण परिचारकैः सह यक्षरात्र्यादयः समस्या एव स्युः । एते-
नेति स्थानगृहन्यासनित्यनैमित्तिकविधिना यथासंभवं गणिकाया नायि-
कायाश्च चरितं व्याख्यातम् । तत्र नागरकाणां स्थाने सख्यः, वेश्यानां
स्थाने नागरका इति ।
 
उपनागरकाणां लक्षणद्वारेण वृत्तमाह -
 
अविभवस्तु शरीरमात्रो मल्लिकाफेनककपायमात्रपरिच्छदः पू-

 

 
१. 'पाञ्चालानाम्' पा०. २. 'मिलितानाम्' पा०. ३. 'नवकदम्बकयुद्धानि
पा. ४. 'कुसुमास्त्रमारग्रहण'; 'सुकुमारवस्तुगृहण' पा०. ५ 'उपदार्थम्';
'उपहार्यम्'; 'उपकार्य' पा०. ६. 'एकत्रचारिणः' पा०. ७ 'गणिकाया:
सखीभिः पा०. ८. 'अनेन' पा०. ९. 'नागरकान्नानाभावादृष्ट-'; 'नागरका
. नानाभावाददृष्ट' पा० १०. 'समस्ता' पा०.
 
का० ८