2023-02-19 13:58:52 by ambuda-bot
This page has not been fully proofread.
४ अध्यायः]
१ साधारणमधिकरणम् ।
५५
कर्मभिः परिचरन्ति ये । तैरनुगताः । पक्षस्य मासस्य वा गमनयोग्य-
तया प्रज्ञातेऽहनि गच्छेयुः । दैवसिकीं यात्रा प्रत्यहं क्रियमाणां शरीर-
स्थितिम् । तत्रैवोद्यानेऽनुभूय कुक्कुटयुद्धद्यूतैः सनीवनिर्जीवैर्नटादिप्रेक्षाभि-
रनुकूलैश्च चेष्टितैर्यथास्वं वेश्याप्रतिबद्धैः कालं गमयित्वा अपराह्ने प्रशा-
न्तवेलायां तैयैवेति स्खलंकृतास्तुरगाधिरूढाः सह वेश्याभिः परिचारकानु-
गता इति । विशेषोऽत्र गृहीततदुद्यानोपमोगचिह्ना इति । तदुद्यानमुप-
भुक्तमिति यानि सूचयन्ति कुसुमस्तबककिसलयादीनि तानि गृहीतानि
शिरः कर्णकण्ठेषु कृतानि [यैः] । प्रत्याब्रजेयुः प्रतीपमागच्छेयुः । एते-
नेति उद्यानगमनविधिना । तत्रापि गमनं दैवसिकयात्रानुभवनमागमनं च
तुल्यम् । किंतु गृहीततदुद्यानोपभोगचिह्ना इति तेन तत्रैव प्रायशोऽन्तर्भू-
तमिति नैमित्तिकवर्गे पृथोक्तम् । योऽत्र विशेषस्तमाह - रचितोड्राहो -
दकानामिति । उग्राहमविद्यमानकुम्भीरायुदकं यस्य तोयस्थानस्य तदु-
ग्राहोदकं वापीदीर्घिकादि । रचितमिति खार्थिकरायन्ताद्धेतुमण्ण्यन्तात्कृ-
त्प्रत्यये रूपम् । 'रच प्रतियत्ने' इत्यदन्तत्वान्न वृद्धिः । तीर्थविन्यासादिभिः
कारितरचनमुद्राहोदकं यैर्नागरकैरिति । ग्रीष्म इति । अन्यदा तु पुनः
पुनर्निमज्जनोन्मज्जनोदकवाद्यविघातादिप्रकारायाः क्रीडाया असंभवात् ।
समस्याः क्रीडा आह -
।
यॆक्षरात्रिः । कौमुदीजागरः । सुवसन्तकः ॥
यक्षरात्रिरिति । सुखरात्रिः । यक्षाणां तत्र संनिधानात् । तत्र प्रा-
यशो लोकस्य द्यूतक्रीडा । कौमुदीनागर इति । आश्वयुज्यां हि पौर्ण-
मास्यां कौमुद्या ज्योत्स्नायाः प्रकर्षेण प्रवृत्तेः । तंत्र दोलाद्यूतप्रायाः
क्रीडाः । सुवसन्तक इति । सुवसन्तो मदनोत्सवः । तत्र नृत्यगीतवाद्य-
प्रायाः क्रीडाः । एता माहिमान्यः क्रीडाः ।
१. 'तयोग्यतया' पा०. २. 'तथैव' पा०. ३. 'तत्रापि गमन दैवसिक -' इति
पुस्तकान्तरे नास्ति. ४. 'समस्ता: क्रीडा:' पा०. ५. 'पक्षरात्रि 'पा०. ६ 'प्रचार: '
पा०. ७. 'शुभदोला'; 'न वा दोला' पा०.