This page has not been fully proofread.

कामसूत्रम् ।
 
४ आदितोऽध्यायः]
 
म्लोपदंशान्वेश्याः पाययेयुरनुपिवेयुश्च । एतेनोद्यानगमनं व्या-
ख्यातम् ॥
 
-
 
तत्रेति । मधु माध्वीकम् । मैरेयासवौ मद्यविशेषौ । तथा चोक्तम्-
'भेषशृङ्गीत्वक्वाथामियुतो गुडप्रतीवापः पिप्पलीमरिचसंभारस्त्रिफलायुक्तो
मैद्यो मैरेयः । कपित्थपत्रफाणितप्रस्थो मधुनश्चासवयोग ।" इति । सुरा
वल्कलतण्डुलाभ्यां निष्पन्नो गुडस्तत्र निक्षिप्यते । मद्यमिति वक्तव्ये
विशेषोपादानं त्रैविध्यख्यापनार्थम् । तथा चोक्तम् – 'गौडी पैष्टी च
माध्वी च विज्ञेया त्रिविधा सुरा । मन्त्र सुराशब्द: सामान्यवाची द्र-
ष्टव्यः । एवं च विविधपानादापानकं भवति । विविधानि लवणतिकरस-
भूयिष्ठानि हरितकटुकानि च शिनुपर्णादीन्यवदंशो येषामिति ता-
न्वेश्याः पाययेयुः, अभ्यर्थनापुरःसरमनुपिबेयुश्च । आदौ पिबद्धिगौरवा-
नुरागौ न प्रकाशितौ स्याताम् । अत्र सह पृथग्वेति देशप्रवृत्तिरपेक्ष-
णीया । एतेनेति । आपानकविधिना । उद्यानगतैरप्ययमेवापानकविधिः
कार्य इत्यर्थः ।
 
५४
 
तत्रोद्यानगमने विशेषमाह -
 
पूर्वाह्न एव स्वलंकृतास्तुरगाधिरूढा वेश्याभिः सह परिचारका-
जुगता गच्छेयुः । दैवसकी च यात्रां तत्रानुभूय क्कुक्कुटयुद्धद्यूतैः
प्रेक्षाभिरनुकूलैश्च चेष्टितैः कालं गमयित्वा अपराहे गृहीततदुधानो-
पभोगचिह्नास्तथैव प्रत्याव्रजेयुः । एतेन रचितोद्धाहोदकानां ग्रीष्मे
जलक्रीडागमनं व्याख्यातम् ॥
 
तदा हि गतानां दैवसिकी यात्रा संपद्यते । खलंकृता गृहीतवैहारि-
कवेषाः । तुरगाधिरूढाः । तुरगाणां ललितयानत्वात् । वेश्याभिः सहेति ।
ता अपि पश्चादग्रतो वा तुरगमारोहयितव्याः । परिचारका यथावं
 
१. 'तत्रेति' इति पुस्तकान्तरे नास्ति. २. 'वा' पा०. मद्यमित्यपेक्षितम् द्वित्रिपु.
स्तकेषु 'मद्यो' इत्येवास्ति ३. 'स्खलकृताङ्गा.' पा०. ४. 'परिचारकैरनुगताः' पा०.
५. 'कुक्कुटलावकमेषयुद्धद्यूतैः' पा०. ६. 'अपराह्न' इति पुस्तकान्तरे नास्ति. ७, 'गृही-
तोद्यानोप-' पा०. ८. 'आख्यातम्' पा०.