This page has not been fully proofread.

४ अध्यायः]
 
१ साधारणमधिकरणम् ।
 
गोष्ठीसमवायमाह --
 
वेश्याभवने सभायामन्यतमस्योदवसिते वा समानविद्यावृद्धिशी-
लवित्तवयसां सह वेग्याभिरनुरूपैराला पैरासनवन्धो गोष्ठी । तत्र
चैपां काव्यसमस्या कलासमस्या वा । तस्यामुज्ज्वला लोककान्ताः
पूज्याः । श्रीतिसमानावहारिताः ॥
 
वेश्याभवन इति । सभायां मण्डपे । अन्यतमस्य वा नागरकस्योदय-
सिते गृहे । एषु नागरकाणामविरुद्धं मेलनं समानविद्यादीनाम्, सुखानि-
शयानामसमानविद्यादीनाम् । बुद्धिः प्रज्ञा, अभिप्रायो वा । सह वेश्या-
भिरिति स्त्रीप्रतिबद्धकलाप्रतिपत्त्यर्थमासां गोष्ठ्यामन्तर्भावः । अनुरूपैः
परस्परस्तुत्यनुरागपरिहासानुविद्धैः । आसनबन्धो यथायथमासनेऽवस्था-
नम् । पक्षस्य मासस्य वा तद्योग्यतया प्रज्ञातेऽहनि स्यात् । तत्रैषां स-
मवायमाह — काव्यसमस्या कलासमस्या चेति । संभूयदर्शनं निरूपणं
तत्समस्या चर्चेत्यर्थः । पूर्ववद्भावे प्रत्ययः । 'अस गतिदीप्त्यादानेपु' इति
गत्यर्थस्य ज्ञानार्थत्वात् । भारतादिकाव्यस्य नृत्यादिकैलाया वा चर्चा
स्यात् । यत्तु काव्यसमस्यापूरणमित्युक्तं तस्य भिन्नार्थत्वात्कलासमस्या
चेत्यत्रान्तर्भावः । तस्यामिति गोष्ठयाम् । चर्चावसाने प्रीतिनिबन्धनायें
वस्त्रादिदानेन परस्परस्य कलापूजाः स्युः । उज्ज्वला अग्राम्या । लोक-
कान्ता लोकमनोहराः । प्रीतिसमानाः प्रीत्यनुरूपाः । आहारिताः परि-
चारिकैरानायिताः ।
 
N
 
समापानकमाह-
परस्परभवनेषु चापानकानि ॥
 
परस्परभवनेषु चेति । एकस्यैकदा भवनेऽन्यदान्यस्य वा पक्षस्म
मासस्य वा तद्योग्यतया प्रज्ञातेऽहनि । आपानकानि पानगोष्ठचः स्युः ।
आपानकेषु विधिमाह -
 
तंत्र
 
मधुमैरेयसुरासवान्विविधलवणफलहरितशाकतिक्तऋटुक्रा-
१. 'च' पा०. २. 'गृहेषु' पा०. ३. 'कलायाम्' पा०. ४. 'तत्रेसापानकेषु पा.
५. 'तत्र' इति पुस्तकान्तरे नास्ति.