This page has not been fully proofread.

५१
 
४ अध्याय:]
 
१ साधारणमधिकरणम् ।
 
21
 
sहनि सरस्वत्या भवने नियुक्तानां नित्यं समाजः । कुशीलवाया-
गन्तवः प्रेक्षणकमेपां दधुः । द्वितीयेऽहनि तेभ्यः पूजा नियतं
लभेरन् । ततो यथाथद्धमेपां दर्शनमुत्सर्गो वा । व्यसनोत्सवेपु
चैषां परस्परस्यैककार्यता । आगन्तूनां च कृतसमवायानां पूजनम-
भ्युपपत्तिश्च । इति गणर्धर्म: । एतेन तं तं देवताविशेषमुद्दिश्य
संभावितस्थितयो घटा व्याख्याताः ॥
 
B
 
के
 
घटानिवन्धनमिति । देवानामुद्दिश्य यात्रा घटा । नागरकाणां तत्र
5 संहत्यमानत्वात् । तस्या निबन्धनं गणधर्मेण व्यवस्थापनम् । गोष्ठीसम-
वायो गोष्ठयां नागरकाणां काव्यकलाविषयं समवायनं संप्रधारणं प्रव
र्धयेत् । यदपराहे गोष्ठीविहार इति नित्यकर्मोक्तं तस्य क्रीडामात्रफल -
त्वादिदं विशिष्यते । समापानकमिति । संभूय समन्तात्पानमापानकमि-
त्यर्थः । यन्नायिकया सबैकस्य मात्रया पानं तंत्सरकाख्यं नित्यमेव
स्यात् । उद्यानगमनमिति । बहिः स्वकारितेऽन्यकारिते वोद्याने गमनं च
विहार इत्यर्थः । गृहवाटिकागमनं तु नित्यमेव स्यात् । समस्याः क्रीडाश्चेति ।
समस्यन्ते समग्रीभवन्ति नागरका यासु ता समस्याः । अधिकरणे य
प्रत्ययः । पूर्ववत्संभूय क्रीडा इत्यर्थः । ता द्विविधाः- माहिमान्यो
देश्याश्च । एतत्पञ्चविधं कर्म नायकः प्रवर्तयेत् । तत्र घटानिवन्धन-
माह - पक्षस्य मासस्य वातिक्रान्तस्यावसानिकेऽहनि । प्रज्ञात इति ।
यद्दिनं यस्या देवताया लोकप्रसिद्धं तत्प्रज्ञातम् । यथा गणपतेश्चतुर्थी,
सरस्वत्याः पञ्चमी, शिवस्याष्टमीत्यादि । तत्र देवतायाः संनिधानात् ।
सरखती च नागरकाणां विद्याकलास्वपि देवता । तस्या आयतने पञ्च-
जद
 
अर
 

 
P
 
1
 
द्र
 

 
१. 'नित्यसमाज.' पा०. २. 'आगन्तवस्तपा प्रेक्षणक्मेकम्' पा०. ३. 'वेन्यः
इति पुस्तकान्तरे नास्ति ४ 'तेपाम्' पा०. 'पाम्' इति पुस्तकान्तरे नालि. ५'५'
इति पुस्तकान्तरे नास्ति. ६. 'धर्मा:' पा०. ७ 'सभापणस्थितयो विनिधा घटा:
पा०. ८. 'तच्छलकाख्यम्'; 'तच्डरकाख्यम्'; 'तन्वयम्' पा०. 'ता हिम्मन्ना
द्वेष्याच' पा०. १०. 'दिवसे' पा०.