This page has not been fully proofread.

कामसूत्रम् ।
 
४ आदितोऽध्यायः]
 
तवैहारिकवेषस्यापराह्णेऽहृश्चतुर्थभागे गोष्ठीविहारा गोष्ठयां क्रीडा इति ।
एतद्दैवसिकं वृत्तम् । रात्रिभवमाह --प्रदोषे चेति । प्रतिष्ठितायां संध्या-
यां रजनीमुखे संगीतकानि नृत्यगीतवादित्रकाणि प्रकाराणि स्युः । तद-
न्ते च संगीतकान्ते । प्रसाधिते संमार्जनपुष्पोपकारशयनरचनादिभिः ।
वासगृहे बा । संचारितो विस्तारितः सुरभिधूपो यत्रेति । वासगृहं
व्याप्य बहिरुपक्रान्त इत्यर्थः । ससहायस्येति । सहायान्वक्ष्यति । तेषाम-
प्यत्र व्यापारात् । शय्यायामिति । शय्यासमीपे स्थितस्य । गौरवानुराग-
ख्यापनार्थे न तावदप्यासीत शेय्याम् । स्वयं वा गमनं कदाचित्स्यादिति ।
आभिमुख्येन कान्तं सरन्तीत्यभिसारिकाः । तासां कृतसंकेतानां प्रतीक्ष-
णम् । दूतीनां संप्रेषणम् । संकेतितकालातिक्रमे तत्संप्रेषणेऽपि मानादना-
गमे स्वयं वा गमनं गौरवानुरागख्यापनार्थम् । मनोहरेरिति । खागतम्,
इदमासनमास्यताम्, साधु कृतं दयिते यदागतासि त्वत्प्रतिबद्धजीवित
एवास्मि, तत्किमिति कालोऽतिक्रामितः, इत्यादिभिरालापैः । उपक्रमाः प्र-
त्युद्गमादयः । ससहायस्येति । सहाया अपि तद्वचनमनुकुर्वन्तः खव्या-
पारेणोपक्रमेरन् । प्रमृष्टं विलुप्तम् । दुर्दिनामिसारिका दुर्दिनकालेऽमिसर-
न्ति याः । स्वयमेव नान्येन । लक्ष्यभूतानां गौरवानुरागख्यापनार्थम् । पु-
नर्मण्डनं वर्षेणोत्पादितवैकृतत्वात् । आसन्नोपभोगकालत्वाच्च । मित्रजने-
नात्मनि विशेषेण पुनर्मण्डनम् । नव्यवृत्तीनां परिचरणं चेति संवाहनवी-
जनादिकं सर्वासामेव परिचारकैः कारयितव्यम् । एतद्वाबस्त्रीषु । नान्त-
दर्दारेषु । आहोरात्रिकमहोरात्रभवम् । सांप्रयोगिकं च रात्रिभवं सांप्रयो-
गिके वक्ष्यति ।
 
5
 
५०
 
नैमित्तकमाह -
 
घटानिवन्धनम्, गोष्ठीसमवायः, समापानकम्, उद्यानगम-
नम्, समस्याः क्रीडार्थे भवर्तयेत् । पक्षस्य मासस्य वा भैज्ञाते-
१. 'पुष्पप्रकर- ' पा०. २. 'शय्यायां वा गमनम्' पा०. ३. 'अतिक्रमितः' पा०.
४ 'च' इति पुस्तकान्तरे नास्ति. ५. 'प्रतीते' पा०.