This page has not been fully proofread.

कामसूत्रम् ।
 
४ आदितोऽध्यायः]
 
दिना । स्रजं शेखरकमापीडं वा । अलक्तकं विशिष्टंरागार्थम् । दत्त्वेत्यर्था-
दोष्ठयोः । ईषदार्द्रयालक्तकपिण्ड्या घृष्ट्वौष्ठं ताम्बूलमुपयुज्य सिक्थकमुँटि-
कया ताडयेदित्यर्थक्रमः । आदर्श मुखमवलोक्य, मङ्गलाथै प्रसाधनगुण-
दोषज्ञानार्थं च । गृहीतमुखवासताम्बूल इति । गन्धयुक्तिविहितां मुखवा -
सगुटिकां कपोले निधाय पुनरुपयोगार्थं च ताम्बूलं हस्तवर्तिकायां गृही-
त्वेत्यर्थः । कार्याणि त्रिवर्गसाधनान्यनुतिष्ठेत् ।
 
अनुष्ठितेषु तेषु शरीरसंस्कारार्थमाह -
 
सात-
नित्यं स्नानम् । द्वितीयकत्सादनम् । तृतीयकः फेनकः । चतु-
र्थकमायुष्यम् । पैश्चमकं दशमकं वा प्रत्यायुष्यमित्यहीनम् ।
त्याच संतृतकक्षावेदापनोदः । पूर्वाहापराहयोर्भोजनम् । सायं चा-
रायणस्य । भोजनानन्तरं शुकसारिकामलाप नव्यापाराः । लाव-
कक्कुक्कटमेषयुद्धानि । तास्ताच कलाक्रीडा: । पीठमर्दविटविदूषका-
यत्ता व्यापाराः । दिवाशय्या च । गृहीतप्रसाधनस्यापराहे गोष्ठी-
विहाराः । प्रदोषे च संगीतकानि । तदन्ते च प्रसाधिते वासगृहे
संचारितसुरभिधूपे ससहायस्स शव्यायामभिसारिकाणां प्रतीक्ष-
णम्, दूतीनां शेषणम्, स्वयं वा गमनम् । आगतानां च मनोहरैरा-
लापैरुपचारैश्च ससहायस्योपक्रमाः । वर्षप्रमृष्टनेपथ्यानां दुर्दिनाभि-
सारिकाणां स्वयमेव पुनर्मण्डनम्, मित्रजनेन वा परिचरणमित्या-
होरात्रिकम् ॥
 
नित्यमिति । प्रत्यहं स्नानम् । ओजस्करत्वात्पवित्रत्वाच्च । द्वितीयकमिति ।
यस्मिन्दिने कृतमुत्सादनं तदनन्तरं दिनं प्रथमम्, तस्माद्वितीयेऽहि शरीरदा-
र्यायै स्यात् । एकान्तरितमित्यर्थः । तृतीयक इति । तृतीयेऽहि जङ्घयोः
फेनको देयः स्यात् । द्विदिनान्तरित इत्यर्थः । अन्यथा ऊर्ध्वं जङ्घे कर्कशे
 
१. 'ओष्ठम्' इति पुस्तकान्तरे नास्ति २. 'उपभुज्य' पा०. ३. 'गुलिकया '
पा०. ४. 'द्वितीयम्' पा०. ५. 'पश्चक दशकम्' पा०० ६० 'पूर्वाह्नापराहभोज-
नम्' पा०.
८. 'विदूषकेषु चायत्ताः' पा०.
'उपक्रम:' पा०.
 
'भोजनाम्ते' पा०.