This page has not been fully proofread.

7
 
H
 
१ साधारणमधिकरणम् ।
 
शयनार्थेन च युक्तम् । एतावद्वृत्तोपयोगिगृहविधानम् । शेषं वास्तुविद्यायां
 
द्रष्टव्यम् ।
 
४ अध्याय:]
 
तस्मिन्कारिते आधेयानां न्यासमाह -
 
बाह्ये च वासगृहे मुश्लक्ष्णमुभयोपधानं मध्ये विनतं शुक्लोचर-
च्छदं शयनीयं स्यात् । प्रॆतिशय्यिका च । तस्य शिरोभागे कूर्च-
स्थानम्, वेदिका च । तत्र रात्रिशेपमनुलेपनं माल्यं सिक्यकरण्डकं
सौगन्धिक पुटिका मातुलुङ्गत्वचस्ताम्बूलानि च स्युः । भूमौ पत-
ग्रहः । नागदन्तावसक्ता वीणा । चित्रफलकम् । वर्तिकासमुद्गकः ।
यः कश्चित् पुस्तकः । कुरण्टकमालाथ । नातिदूरे भूमौ वृत्तास्तरणं
समस्तकम् । आकर्षफलकं द्यूतफलकं च । तस्य बहिः क्रीडाशकु-
निपञ्जराणि । एकान्ते च तक्षतक्षणस्थानमन्यासां च क्रीडानाम् ।
खास्तीर्णा मेङ्खादोला वृक्षवाटिकायां संप्रच्छाया । स्वण्डिलपी-
ठिका च सकुसुमेति भवनविन्यासः ॥
 
बाह्य इति । आभ्यन्तरं वासगृहमन्तर्दाराणां शयनार्थम् । वाले च
प्रकोष्ठे कृते रत्यर्थं शयनीयं स्यात् । लक्ष्णं खट्टाश्रय प्रतिपादिकास्तरण-
तूलिकादिभिः सुरमितं च । उभयोपधानं शिरश्चरणभागयोर्न्यस्तोपधानम् ।
मध्ये विनतमाक्रान्तम् । मृदुकमित्यर्थः । शुक्लोत्तरच्छदमिति । शुक्लस्प
प्रच्छदपटस्य प्रत्यहं द्वित्रैर्वा दिवसैः प्रक्षालनीयत्वादित्यवश्यं तदुपरिदे-
यम् । प्रतिशय्यिका चेति । तस्य समीपे संप्रयोगार्थे तत्प्रतिच्छन्दिका
किंचिन्यूनोत्सेधा यस्यामशिय्यका स्यात् । इत्येवं विधिः । अयमाचार-
वताम् । वेश्याकामिनस्तु शयनीयपदे उभयं निर्वर्तयन्ति । न तेषां
प्रतिशय्यिका । तथा चोक्तम्- 'संप्रयुज्येत यत्रस्थो नायकः प्रियया
 
१. 'शयनार्थ मघयुक्तम्' पा०. २. 'आधेयादीनाम्' पा०. ३. 'मृप्तम्' पा०. Y.
'बद्धवितानं शयनीयम्' पा०. ५. 'प्रतिशय्या' पा०. ६. 'च' इति पुस्तकान्तरे नाति,
७. मातुलिङ्गत्वचा मुखवासताम्बूलानि पा० ८. 'यत्किचित्पुस्तकम्' इत्युचितः पाठः,
 
'समसूरकम्' पा०. १०. 'तर्कतक्षण-' पा०. ११. 'सप्रच्छाया' इति पुन्वन्तरे
नास्ति. १२. 'सुप्तम्' पा० १३. 'च' इति पुस्तकान्तरे नास्ति १४. 'भारो-
व्यका' पा.